________________
प्रबन्धचिन्तामणिः |
[ तृतीयः
महामात्य -
प्रेष्यस्यापरस्मिन्नहन्यऽनिवेदिततत्त्वस्य प्रसादलेखमार्पयत् । यदस्मै वण्ठाय तुरङ्गमशतस्य सामन्तता देयेत्यालिख्यं तं श्रीसान्तूपार्श्वे प्राहिणोत् । अथ स यावच्चन्द्रशालाया निःश्रेण्यामवरोहति तावत्प्रस्खलितपदः पृथिव्यां पतदीषदङ्गभङ्गमङ्गीकृतवान् । तत्पृष्ठानुगामिनाऽपरेण वण्ठेन किमेतदिति पृष्ठे तेन स्वस्वरूपे निवेदिते स मञ्च - कन्यस्तो गृहं गत्वा तमपरस्मै समर्पितवान् । तत्प्रमाणेन महामात्यस्तस्मै शततुरङ्गमसामन्ततां ददौ । अथ तयोर्यथावद्वृत्तान्तेऽवधारित नृपतिः कर्मैव बलीय इति तत्प्रभृति मेने यथा
W
१२२
४५) नैवाकृतिः फलति नैव कुलं न शीलं विद्या न चापि मनुजेषु कृता न सेवा । पुण्यानि पूर्वतपसा किल सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ १ ॥ इति वण्ठकप्राधान्यप्रबन्धः ॥
४६) सो जयउ कूडच्छरडो तिहुयणमज्झम्मिँ जेसलनरिन्दो । छित्तूण रायवंसं इकं छत्तं कयं जेण ॥ १ ॥
४७) महालयो महायात्रा - ० ( इत्यादिपृ. १०२ *टिप्पण्यां संपूर्णः ) ४८) मात्रयाप्यधिकं किञ्चिन्न सहन्ते जिगीषवः ।
इतीव त्वं धरानाथ धारानाथमपाकृथाः ॥ २ ॥+
१ आलेख्य C २ प्रसादलेखं a
* वल्लभदेवकृत सुभाषितावल्यां श्लो. ३१०० अश्वघोषस्येति प्रदत्तस्तत्रःविद्या सहस्रगुणिता न च वाग्विशुद्धिः ।
कर्माणि पूर्वशुभसंचय संचितानीति पाठभेदः ॥
भर्तृहरिकृतनीतिशतकेऽपि वर्तते ( ९६ ) पद्यमिदम्
३ तपोऽपि न च यत्नकृतापि सेवा a D४ भाग्यानि b D ५ नरडो b ६ मलम b ७ रायवंसे b + सिद्धहैमप्रशस्त्यां पद्यमिदम् (लो. २१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org