________________
प्रकाशः] सिद्धराजप्रबन्धः ।
१२५ चितां विवेश । इति वाक्याकर्णनाच्छोकाम्भोधिमनां श्रीमयणल्लदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार ।
५३ अथ सा पितुः श्रेयसे श्रीसोमेश्वरपत्तने यात्रां गता सती त्रिवेदिनं' कमपि ब्राह्मणमाकार्य तदनलौ जलन्यासावसरे यदि भवत्रयपातकं लासि तदा ददामि नान्यथेति तद्वचनविशेषपरितोषभाक् गजाश्वकाञ्चनादिमियुतं पापघटमाददौ । स च तत्सर्वं विप्रेभ्यो ददानः किमिति देव्या पृष्टः प्राह । प्राक्तनपुण्यादस्मिन् जन्मनि नृपप्रिया नृपतिजननी भूत्वा लोकोत्तरेभिर्दानैः सुकृतैर्भावी भवोऽपि श्रेयस्कर इति विमृश्य भवत्रयपातकं मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्चिदधमद्विजोऽपि पापघटं नीत्वा स्वं भवतीं च भवाम्भोधौ मज्जयिष्यतीति मया तु संन्यस्तसमस्तवित्तेन वित्तमेतदादाय पुनर्ददता लब्धौदष्टगुणं पुण्यं लब्धमिति श्रेयः स जगृहे । इति पापघटस्य प्रबन्धः ॥
५४ ॥ अथ कदाचिन्मालवकमण्डलं विगृह्य स्वदेशनिवेशं प्रति चलितः श्रीसिद्धाधिपोऽन्तराले प्रतिमल्लैभिल्लै रुद्धमध्वानमवधार्य तस्मिन्वृत्तान्ते ज्ञाते सति मन्त्री सान्तूनामा प्रतिग्रामं प्रतिनगरं घोटकमुदाय प्रतिवृषं पर्याणानि विन्यस्य मेलितातिदलबलेन मिल्लान्वित्रास्य श्रीसिद्धराज सुखेन समानीतवान् ॥ इति सान्तूमन्त्रिप्रबन्धो बुद्धिवैभवप्रबन्धो वा ॥x
५५ अथ कस्यांचिन्निशि द्वावकुण्ठावेव वण्ठौ श्रीसिद्धराजस्य चरणसंवाह व्यापृतौ तं निद्रामुद्रितलोचनं विचिन्त्य तदाद्यो निग्रहानुग्रहसमर्थ श्रीसिद्धराज सेवकजनकल्पवृक्षं सर्वराजगुणनिलयं प्रशशंस । अपरस्त्वस्यापि भूपतेः प्राज्यराज्यप्रदं प्राक्तनं कर्मैव श्लाधितवानेवमाकर्णिते तेन राज्ञा तस्मिन्वृत्तान्ते तत्कर्मणः प्रशंसां विफलीकर्तुं स्वप्रशंसाकारिणः
१ त्रिवेदीवेदिनं A २ तदा ददासि ॥ ३ दानेयुतं D ४ लब्धादृष्टगुणं P * अयं पापघटप्रबन्धः पुस्तकान्तरे नास्तीति डा. भाउदाजीना लिखितं ५ बल. स्तबलेन c दलस्तद्वलेन K x अयं सान्तूमन्त्री प्रबन्धोऽन्यस्मिन्नास्ति पुस्तके इति डा. भाउदाजीना लिखितम् ६ संवाहना. D ७ आकर्णितेन P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org