SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ तृतीयः मालवकसमुद्रो मम इति विरोधालङ्कारमर्थापत्त्या परिहरन्प्रभोर्हेममयीं जिव्हां प्राप । इति कौतुकीसीलणप्रबन्धः ॥ १२० ५१ कदाचित्सिद्धराजस्य वाग्मी कश्चित्सान्धिविग्रहिको जयचन्द्रनाम्ना काशीपुरीश्वरेण श्रीमदणहिल्लपुरस्य प्रासादप्रपानिपानादिस्वरूपाणि पृच्छतेति दूषणमुक्तः । यत्सहस्रलिङ्गसरोवरवारि शिवनिर्माल्यं तदस्पृश्यतया तत्सेवमानो लोकद्वयविरोधेन तत्रत्यलोकः कथमुदितोदितप्रभावः स्यादिति । सिद्धाधिपेन सहस्रलिङ्गसरः कारयताऽनुचितमि दमाचरितमिति तस्य नृपतेर्वचसान्तः कुपितः स नृपं पप्रच्छ । अस्यां वाराणस्यां कुतस्त्यं पयः पीयते ? नृपेण त्रिपथगाजलमित्यभिहिते किं नाम सुरसरिन्नीरं शिवनिर्माल्यं न यतः शिवोत्तमाङ्गमेव गङ्गानिवासभूमिः । इति जयचन्द्रराजेन गूर्जरप्रधानस्योक्तिप्रबन्धः ॥ " ५२ कस्मिन्नवसरे कर्णाटविषयादागतेन सान्धिविग्रहिकेण श्रीमयणल्लदेव्या पितुर्जयकेशिराजस्य कुशलोदन्ते पृष्टेऽश्रुमिश्रलोचनेनेति सा विज्ञपयामास । स्वामिनि सुगृहीतनामा जयकेशिमहीन्द्रोऽशनावसरे पञ्ज - राक्रीडाशुकमा कारयन् तेन मार्जार इत्युच्चरिते नृपः परितो विलोक्य निजभोजनान्धोऽधोभागवर्तिनमोतुमपश्यन् यदि तव बिडालेन विनाशः स्यात्तदाहं त्वया सह गमनं करवाणीति प्रतिज्ञाते स यावत्पञ्जरादुड्डीय तस्मिन्काञ्चनभाजने निषीदति तावदकस्मात्तेन वृकदंशेन तं विनाशितमालोक्य परित्यक्ताशनकबलः । उक्तियुक्तिवेदिना राजवर्गेण निषिध्यमानोऽपि— · ४४) राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मयाँ स्वयमेवोक्ता वाचा मा यातु शाश्वती || इतीष्टदैवर्तमिव तामेव गिरं जयंस्तेनैव शुकेन सह दारुनिचितां १ निजभोजनभाजनाधोभागवर्तिनं CDHM २ याच्या D ३ देवतां C Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy