SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] सिद्धराज प्रबन्धः । ११९ ते पराकृतास्तत्स्वरूपं नृपतेर्विज्ञपयामासुः । अथ स्वामिनि सभां निभा - लयति तच्चित्तवेदिना केनापि नियोगिनाञ्जलिबन्धपूर्वकं निजाभिप्राये प्रादुः क्रियमाणे राज्ञा स रहसि तत्कारणं पृष्टो नृपतेराशयं विज्ञपयन् द्रव्यलक्षत्रयसाध्योऽयमर्थ इति वाक्यविशेषमाह । तदैव दैवज्ञनिर्दिष्टे मुहूर्ते स नृपालक्षत्रयमुपलभ्य वणिगाकारो भूत्वा सर्वभाण्डानि संगृह्य सिद्धसङ्केतं रत्नखचितं सुवर्णपादुकायुगलमतुलं योगदण्डं च मणिमयकुण्डलयुगलं च तद्विधयोगपिशुनं योगपट्टं च चण्डांशुरोचिश्चण्डातकं सह नीत्वा पथानमुल्लङ्घ्य कतिपयै रहोभिस्तत्पुरे दत्तावासः । आसन्नायां दीपोत्सवनिशि तन्नगरराज्ञोऽवरोधे महालक्ष्मीदेव्याः पूजार्थं तत्प्रासादमुपे - ष स कृतकसिद्धरूपस्तेन वेषेणालङ्कृतः, केनापि सदभ्यस्त त्पतनेन बर्बरेणानुगम्यमानो देव्याः पीठेऽकस्मात्प्रादुरासीत् । देव्या रत्नमयसुवर्णकर्पूरमयीं सपर्यां विरचयंस्तदवरोधाय तद्विधानि बीटकानि ददानः श्रीसिद्धराज नामाङ्कितं सिद्धवेषं पूजाव्याजात्तत्र नियोज्योत्पतनवशाहूरस्कन्धमधिरुह्य यथागतमगात् । निशावसाने समयेऽवरोधैस्तं विरोधीनृपवृत्तान्तं ज्ञापितः सन् भयभ्रान्तो नृपः स्वप्रधानपुरुषैस्तत्प्राभृतं सिद्धाधिपतये प्राहिणोत् । अथ तेन नियोगिना भाण्डादिक्रयविक्रयं संक्षिप्य । ममागमनावधि नैतेषां प्रधानानां दर्शनं देयमिति वेगवता पुरुषेण विज्ञपयामास । तदनु झटिति कतिपयैर्दिनैस्तत्र समुपेतः । तत्स्वरूपं विज्ञप्तो नृपतिस्तेषां प्रधानानां तदुचितामावर्जनां चकार । इति कोल्लापुरराजप्रबन्धः* ॥ ५० श्रीसिद्धराजेन मालवमण्डलाद्यशोवर्मा नृपतिर्निबध्यानीतः । अवसरे क्रियमाणे सीलणाभिधान कौतुकिना "बेडायां समुद्रो मग्न इति" तत्पृष्टगायनेनापशब्दं ब्रूषे इति तर्जितो बेडासमानायां गूर्जरधरित्र्यां १ तत्तत्त्व २ सिद्धशङ्केव ३ चन्द्रात * अयं कोल्लापुरराजप्रबन्धः पुस्तकेऽन्यस्मिन्नास्तीति डा. भाउदाजीना लिखित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy