________________
११८
प्रबन्धचिन्तामणिः। [तृतीयः समागते प्रलयकालप्रचण्डपवनप्रादुर्भावे नृपः सुधर्मसधैर्माणमास्थानीमास्थाय यावदवलोकते तावदन्तरिक्षादवतरन्तं मस्तकन्यस्तकाञ्चनेष्टिकायुगेन काञ्चनशोभां बिभ्राणं पलादयुगलमालोक्य भयभ्रान्ते समाजलोके नृपचरणपीठे तदुपायनं विमुच्य भूपीठलुठनात्पूर्व प्रणिपत्येति विज्ञपयामास । यदद्य देवार्चनावसरे लङ्कानगर्यां महाराजाधिराजः श्रीविभीषणो राजस्थापनाचार्यस्य रघुकुलतिलकस्य श्रीरामस्याभिरामगुणग्रामाभिरामस्य स्मरन् ज्ञानमयेन चक्षुषा सम्प्रति चालुक्यकुलतिलकं श्रीसिद्धराजावतारेऽवतीर्ण स्वयं स्वीयं स्वामिनमवधार्योत्कण्ठोत्कटायमानमानसोऽहं तत्र प्रणामकरणायागच्छामीति किंवा प्रभु मत्रागमनेनानुग्रहीष्यतीति विज्ञपयन्नौ प्रहितवान् । तन्निर्णयं श्रीमुखेन समादिशतु देवः । ताभ्यामित्यभिहिते नपतिः किञ्चिदन्तर्विचिन्त्य स तावेवं समादिशत् । यद्वयमेव प्रफुल्लायल्लकलहरीप्रेर्यमाणाः स्वसमये स्वयमेव विभीषणमिलनाय समेष्याम इत्युदीर्य निजकण्ठशृङ्गारिणमेकावलीहारं प्रतिप्राभृतं प्रसादीकृतं । प्रभुणाहमयमपि प्रेष्यप्रेषणावसरे न विस्मरणीय इति विशेषविज्ञप्तिं विधायान्तरिक्षमार्गेण तद्राक्षसद्वन्द्वं तिरोधत्ते । तदैव ते म्लेच्छप्रधानपुरुषा भयभ्रान्ताः स्वपौरुषमुत्सृज्य नृपपुरत आहूता भक्तिभारभासुराणि वचांसि ब्रूवाणास्तद्राजाय समुचितमुपायनमुपनीय श्रीसिद्धराजेन व्यसृज्यन्त । इति म्लेच्छागमनिषेधप्रबन्धः ॥
४९ अथानन्तरं कोल्लापुरनगरराजस्य सभायां बन्दिनः श्रीसिद्धराजस्य कीर्ति वितन्वन्तः, तदा तथ्यं सिद्धराजं वयं मन्यामहे यदा प्रत्यक्षमप्यस्माकं कमपि चमत्कारं सिद्धराजो दर्शयतीत्येतब्रुवाणेन तेन राज्ञा
१ अवसरे b He D२ इन्द्रसभा. ३ अकुण्ठोत्कण्ठाघटमान. HD ४ नमः A C ५ प्रसादीकृत्य a H ६ आपृच्छनावसरे प्रभुणाहमन्यस्मिन्नपि. a H ७ व्यज़म्भन्त, D * अयं म्ळेच्छागमनिषेधप्रबंधः पुस्तकान्तरे नास्तीति डा. भाज दाजीना लिखितं ८ कौल्लाकपुर D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org