________________
श्री: प्रबन्धचिन्तामणिः
चतुर्थः प्रकाशः
कुमारपालप्रबन्धः १ अथ परमाहतश्रीकुमारपालप्रबन्धःप्रारभ्यते । श्रीमदणहिलपुरपत्तने बृहति श्रीभीमदेवे साम्राज्यं पालयति श्रीभीमेश्वरस्य पुरे चउलादेवीनाम्नी' पण्याङ्गना पत्तने प्रसिद्धं गुणपात्रं रूपपात्रं च तस्याः कुलयोषितोऽप्यतिशायिनी प्राज्यमर्यादां नृपतिर्विमृश्य तस्यास्तद्वृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यातस्यामेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपो वर्षद्वयं यावन्मालवकमण्डले विग्रहाग्रहात्तस्थौ । सा चउलादेवी तद्वित्तग्रहणकप्रामा ण्येन तद्वर्षद्वयं परिहृतसर्वपुरुषा शीललीलयैव तस्थौ । निस्सीमपराक्रमोभीमः कृती स्वस्थानमागतो जनपरंपरया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तदङ्गजो हरिपालस्तत्सुतस्त्रिभुवनपालस्तत्पुत्रः कुमारपालदेवः । स त्वविदितधर्मोऽपि कृपापरः परनारीसहोदरश्च । स तु सामुद्रिकवेदिभिर्भवदनन्तरमयं नृपो भविष्यतीति सिद्धनृपो विज्ञप्तस्तस्मिन्हीनजातावित्यसहिष्णुस्तस्य विनाशावसरमन्वेषयामास सततं । कुमारपालस्तं वृत्तान्तमीषद्विज्ञाय तस्मान्नृपतेः शङ्कमानमानसः तापसवेषेण निर्मितनानाविधदेशान्तरभ्रमणः कियन्त्यपि वर्षाण्यतिवाह्य पुनः पत्तनमागतः कापि मठे तस्थौ । अथ श्रीकर्णदेवस्य श्राद्धावसरे श्रद्धालुतया निमन्त्रितेषु सर्वेष्वषि तपस्विषु श्रीसिद्धराजः प्रत्येकं तेषां तपस्विनां स्वयं पादौ प्रक्षा
१ चऊलादेवीनामा C बकुलादेवी M बउलादेवी b H २ चातीव तस्याः c ३ विग्रहाय D४ सा तु बउला bH ५ तृतीयवर्षे M Ha ६ तु विदित धर्मोऽपि a P ७ श्रीमदादिभूपतेरशठो मठे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only