________________
प्रबन्धचिन्तामणिः ।
[ तृतीयः ठोरतरकर निकरप्रसरतप्यमानापि शाडलभूमिषु तं पतिं वृषभरूपं चारयन्ती कस्यापि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती, आलापं नभस्यकस्माच्छुश्राव । तदा तत्रागतो विमानाधिरूढः पशुपतिर्मवान्या तद्दुःखकारणं पृष्टो यथावस्थितं निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवतिन औषधाङ्करानुच्छेद्य वृषभवदने क्षिपन्ती तेनाप्यज्ञातस्वरूपेणौषधाडुरेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । यथा तदज्ञातस्वरूपोऽपि भेषजाङ्कुरः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात्तदपि तिरोहितं पात्रपरिज्ञानं सभक्तिकं सर्वदर्शनाराधनेनाऽविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः । इति हेमचन्द्राचायैः सर्वदर्शनसन्माने निवेदिते सति श्रीसिद्धराजः सर्वधर्माराधनां चकार । इति सर्वदर्शनमान्यताप्रबन्धः ॥
११४
४२ ॥ अथान्यदा निशि कर्णमेरुप्रासादे नृपतिर्नाटकं विलोकयन् केनापि चणकविक्रयकारिणा वणिग्मात्रेण स्कन्धन्यस्तहस्तेन तल्लीला - यितेन चित्रीयमाणमानसः स भूयो भूयस्तदीयमानं सकर्पूरबीटकं परितो - षितो गृह्णन् नाटकविसर्जनावसरेऽनुचरैस्तद्देहादि सम्यगवगम्य सौधमा - साद्य सुष्वाप । प्रत्यूषे भूपः कृतप्राभातिककृत्यः सर्वावसरेऽलङ्कृतसभामण्डपस्तं चणकविक्रयकारिणं विपणिनमाकार्य निशि स्कन्धन्यस्तहस्तभारेण ग्रीवा बाधते इत्यभिहिते तत्कालोत्पन्नमतिर्विज्ञपयामास । देव आसमुद्रान्तभूभारे स्कन्धाधिरूढे यदि स्वामिनो न बाधते स्कन्धस्तदा तृणमात्रस्य निर्जीवस्य मम पण्याजीवस्य भारेण स्वामिनः र्को स्कन्धबा घेति तदीयौचित्यविज्ञपनेन प्रमोदान्नृपः पारितोषिकं ददौ ||
इति चणकविक्रयिवणिजः प्रबन्धः ॥
४३ अथान्यस्यां निशि नृपः कर्णमेरुप्रासादात्प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः
१ संमते A bH २ स्कन्धेन स्कन्धन्यस्तहस्तेन Pa स्कन्धन्यस्तहस्तः H. ३ परितोषिते P ४ भारेण का. D ५ प्रमोदवान् H P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org