SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] सिद्धराज प्रबन्धः । ११३ व्रजन्तमालोक्यैकस्या अजायाः कण्ठे पाषाणखण्डं रत्नपरीक्षकतया रत्नजातीयं परीक्ष्य तल्लोभात्तां मूल्येन क्रीत्वा मणिकारपार्श्वत्तमुत्तेजितं निर्माप्य सिद्धराजमुकुट घटना प्रस्तावे लक्षमूल्यद्रव्येण तं नृपायैव ददौ । तेन नवीन मञ्जिष्टास्थानकानि कदाचिदागतानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जलचोरभयात्तदन्तर्निहिताः काञ्चनकम्बिकाः पश्यन् सर्वेभ्यः स्थानकेभ्यस्ताः संजग्राह । तदनन्तरं सर्वनगरमुख्यः श्रीसिद्धराजमान्यो जिनशासनप्रभावकः श्रावकः प्रतिदिनं प्रतिवर्षं यदृच्छया जैनमुनिभ्योऽन्नवस्त्रादि ददानो गुप्तवृत्या नव्यानि धर्मस्थानानि जीर्णानि च प्रशस्तिर - हितानि स्वदेशेषु च समुद्दधार ॥ ४२) वल्लीछन्नद्रुम इव मत्स्नाच्छादितसमस्तबीजमिव । प्रायः प्रच्छन्नकृतं सुकृतं शतशाखतामेति ॥ इति साह आभडप्रबन्धः * ॥ ४१ अथान्यस्मिन्नवसरे श्रीसिद्धराजः संसारसागरं तितीर्षुः प्रत्येकं सर्वदेशेषु सर्वदर्शनेषु देवतत्त्वधर्मतत्वपात्रतत्त्वजिज्ञासया पृच्छ्यमानेषु निजस्तुतिपरनिन्दापरेषु सन्देह दोलाधिरूढमानसः श्रीहेमाचार्यमाकार्य विचार्यकार्यं पप्रच्छ । आचार्यैस्तु चतुर्दशविद्यास्थानरहस्यं विमृश्येति पौराणिकनिर्णयो वक्तुमारेभे । यत्पुरा कश्चिद्व्यवहारी पूर्वपरिणीतां पत्नीं परित्यज्य संगृहिणीसात्कृतसर्वस्वः सदैव पूर्वपत्न्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणककर्मणि पृच्छयमाने कश्चिगौडदेशीयो रश्मिनियन्त्रितं तव पतिं करोमीत्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपानीय भोजनान्तर्देयमिति भाषमाणः स गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथा कृते स प्रत्यक्षवृषभतां प्राप । सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान्सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यंदिने दिनेश्वरक १ छल्ली छन्न. Ac २ वसाह A अयं साहआभडप्रबन्धः ( आभडोत्पत्तिप्रबंध : ) प्राचीनेऽन्यस्मिन्पुस्तके नास्तीति डा. भाउदाजीना स्वकीयादर्शप्रान्तभागे लिखितम् । किन्तु चतुर्विंशतिप्रबन्धे वर्तते । १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy