________________
११२
प्रबन्धचिन्तामणिः।
[तृतीयः ३८) भेजेऽवकीर्णितां नमः कीर्तिकन्थामुपार्जयन् । ____तां देवसूरिराच्छिद्य तं निम्रन्थं पुनर्व्यधात् ।। इति श्रीउदयप्रभदेवः । ३९) वादविद्यावतोऽद्यापि लेखशालामनुज्झता ।
देवसूरिप्रभोः साम्यं कथं स्याद्देवसूरिणा ।। इति श्रीमुनिदेवाचार्यः । ४०) नग्नो यत्प्रतिभाधर्मात्कीर्तियोगपटं त्यजन् ।
व्हियेवात्याजि भारत्या देवसूरिMदेऽस्तु वः ॥ १॥ ४१) सत्रागारमशेषकेवलभृतां भुक्ति तथा स्थापय
नारीणामपि मोक्षतीर्थमभवत्तद्युक्तियुक्तोत्तरैः । यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरु
स्तद्देवाद्गुरुतोऽप्यमेयमहिमा श्रीदेवसूरिप्रभुः ॥ २ ॥ इति मेरुतुङ्गसूरिणां द्वयमिति देवसूरीणां प्रबन्धः ।
४०॥ अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आभडनामा वणिक् पुत्रः कांस्यकारकहट्टे घर्घरकघर्षणं कुर्वंस्तत्र पञ्च विषोपेकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि श्रीहेमसूरीणां चरणमूले प्रतिक्रम- प्रकृतिचतुरतयाऽधीतागस्त्यबौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां सानिध्यात्परीक्षादक्षः कदाचिच्छ्रीहेमचन्द्रसन्निधौ धनाभावात्परिग्रहप्रमाणनियमान्संकुचितान् गृह्णन् सामुद्रिकवेदिभिः प्रभुभिरायतौ तद्भाग्यवै. भवप्रसरं विमृशद्भिस्तस्य लक्षत्रयद्रम्माणां परिग्रहमानं कारयद्भिः सह संतुष्टतया व्यवहरन्, कस्मिन्नप्यवसरे क्वापि ग्रामे यियासुरन्तरालेऽजात्र
१ कण्ठामुपायं यः A २ निग्रन्थं P a ३ विदः A ४ अमुञ्चता H ५ धर्मात् A ६ स्पर्द्धावान् गुरुतो c लमप्रतिष्ठागुरुश्रीदेवाद्गुरुतः D ७ श्रीदेवसूरिः प्रभुः D ___* मुनिदेवसूरिकृते शांतिनाथचरित्रे श्लोकबद्धेऽप्ययं श्लोकः १२ - अयं देवसरिप्रबन्धो प्रभावकचरितेप्यस्ति, मुद्रितकुमुदचन्द्रनाटकेऽपि प्रबन्धस्यास्य वस्तु गुम्फितम् ८ श्रीमालज्ञातीयः D ९ पञ्च लोष्टिकान् ( राजशेखरकृत प्रबन्धकोशे पाठः) १० प्रतिक्रामन् D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org