________________
प्रकाशः ]
सिद्धराजप्रबन्धः ।
सोपक्रमे कोटाकोटिरिति शब्दे प्रोच्यमाने, तच्छब्दव्युप्तत्तिं कुमुदचन्द्रे पृच्छति, कण्ठपीठे लुठिताष्टव्याकरणः पण्डितः काकल: टापटीपसूत्रनिष्पन्नं शाकटायनव्याकरणोदितं कोटाकोटिः कोटीकोटि कोटिकोटिरिति सिद्धं शब्दत्रयनिर्णयं प्राह । अथ प्रथममेव वाचस्ततो मुद्रिता इति स्वयं पठितमिति स्वयमपशब्दप्रभावात्तदा तु प्रादुर्भूतमुखमुद्रः श्रीदेवाचार्येण निर्जितोऽहमिति स्वयमुच्चरन् श्रीसिद्धराजेन पराजितव्यवहारादपद्वारेणापसार्यमाणः संभवत्पराभवाविर्भावादुद्विस्फोट' प्राप्य विपेदे ॥
३९ अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमनाः देवाचार्यप्रभावप्रभावनाचिकीर्मूर्ध्नि' घारितसितातपत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलशङ्खेषु रोदः कुक्षिभरिविभ्रमं बिभ्रति निःस्वाननिस्वनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले थाहडनांनोपासकेन लक्षत्रयप्रमितद्रव्यव्ययकृतार्थीकृतार्थिसार्थे वादिचक्रवर्तिनः पादावधार्यतामिति स्तुतित्रातैरमन्दानन्दकन्दकन्दलनकारिणि मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान्थाहडेने तेनैव कारितप्रासादे श्रीमन्महावीरनमस्करणपूर्वं वसतौ प्रावेशयत् । तत्पारितोषिके नृपतिः सूरिभ्योऽनिच्छच्योऽपि छालाम भृतिग्रामद्वादशकं ददौ । तदुपश्लोकेन श्लोका एवं
१११
३६) वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति सुखप्रश्नेषु दर्शनम् ॥ इति श्री प्रद्युम्न्नाचार्यः ।
३७) यदि नाम कुमुदचन्द्रं नाजेप्यदेवसूरिरहिमरुचिः । कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥
इतिमाचार्यः ।
१ ऊर्ध्वस्फोटं H D २ प्रभावनां चिकीर्षुः ९ ३ पूर्यमाणेषु दिगन्तरालेषु D
४ ऊर्जतूर्य D ५ चाहड A ६ चाहडेन A D ७ प्रावेशयन् A b
* पद्यमिदं प्रभावकचरिते देवसूरिप्रबन्धेऽपि वर्तते ( २५१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org