________________
प्रकाशः]
सिद्धराजप्रबन्धः। कस्यापि व्यवहारिणो हर्थे बहून्दीपानालोक्य किमेतदिति पृष्टः स लक्ष. दीपांस्तान्विज्ञपयामास । असौ धन्य इति । स्वसौधमध्यमध्यास्य व्यतीतक्षणदाक्षणः स धन्यमानिनं तं सदः समानीयेत्यादिदेश । एतेषां सदा प्रदीपानां प्रज्वालनेन भवतः सदा प्रदीपनं, तद्भवदीयवित्तस्य कियन्तो लक्षा इत्यभिहितः स विद्यमानांश्चतुरशीतिलक्षान्निवेदयामास । तदनुकम्पाकम्पमानमानसः स्वकोशात्षोडशलक्षान्प्रसादीकृत्य तत्सौधे कोटिध्वजमध्यारोपयामास । इति षोडशलक्षप्रबन्धः ॥
४४ अथान्यस्मिन्नवसरे राज्ञा कदाचिद्वालाकदेशे दुर्गभूमौ सिंहपुरमिति ब्राह्मणानामग्रहारः स्थापितस्तच्छासने षडुत्तरशतं ग्रामाः । अथ श्रीसिद्धराजः कदाचित्सिंहनादैर्भीतैर्विप्रैर्देशमध्यनिवासं याचितः साभ्रमतीतीरवर्तिनमाशाम्बिलीग्रामं तेभ्यो ददौ । तेषां च सिंहपुराधान्यान्यादाय गच्छतामागच्छतां च दानमोक्षं चकार ।
४५ अथ राज्ञा सिद्धराजेन मालवकं प्रति कृतप्रयाणेन वाराहीग्रामपरिसरमाश्रित्य तदीयान् पैट्टकिलानाहूय तच्चातुर्यपरीक्षाकृते निजां प्रधानां राजवाहनसेजवाली स्थपनिकाथ समर्पिता । अथ नृपतौ पुरतः प्रयाते तैः सर्वैरपि संभूय तदङ्गानि प्रत्येकं विदार्य यथावाञ्छितं स्वस्वसौधे निदधिरे। अथ यदा प्रत्यावृत्तो नृपस्तां स्थपनिकां तेभ्यो याचमानस्तढ्ढौकितभिनानि तदङ्गानि पश्यन् सविस्मयं किमेतदित्यादिशंस्तैर्विज्ञपयांचक्रे । स्वामिनकः कोऽप्यस्य वस्तुनो गोपनविधौ न प्रभूष्णुमलिम्लुचादिभ्यःकदाचिदैपाये संजायमाने सति कः प्रभोरुत्तरकर्तेति विमृश्यैतदस्माभि
१ स धन्यमानी. A धन्यमानी P २ आशाम्बली A b ३दाण b ४ पट्टिc M ५ यानविशेषं ६ स्थापनिकार्थ c ७ समार्पयत. P ८ यथोचितं c ९ स्थापनिकां (न्यास थापण इति भाषायां ) Pa१० मलिम्लुचानलादीनां कदाचिदपाये D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org