SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०८ प्रबन्धचिन्तामणिः। [ तृतीयः तत्त्वातत्त्वविचारणासु यदि वो हेवाकलेशस्तदा सत्यं कौमुदचन्द्रमभियुगलं रात्रिंदिवं ध्यायत ॥ इमां तदुचितां कवितां निर्माप्यं समादाय कुमुदचन्द्रः श्रीदेवसूरीन्प्र. ति प्राहिणोत् । तदनु तच्चरणपरमाणुर्बुद्धिवैभवावगणितचाणाक्यः पण्डितमाणिक्यः । ३०) *कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यक्षिणा कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं कांक्षति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये यः श्वेताम्बरशासनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ अथ रत्नाकरपण्डितः३१) 'नग्नैर्निरुद्धा युवतीजनस्य यन्मुक्तिरत्र प्रकटं हि तत्त्वम् । तल्कि वृथा कर्कशतर्ककेलौ तवाभिलाषोऽयमनर्थमूलः ॥ इति कुमुदचन्द्रं प्रति सोपहासं प्राहिणोत् ॥ अथ श्रीमयणल्लदेवी कुमुदचन्द्रपक्षपातिनी, अभ्यासवर्तिनः सभ्यांस्तज्जयाय नित्यमुपरोधयन्तीति श्रुत्वा श्रीहेमचन्द्राचार्येण वादस्थले दिगम्बराः स्त्रीकृतं सुकृतमप्रमाणीकरिष्यन्ति, सिताम्बरास्तं स्थापयिष्यन्तीति तेषामेव पार्थात्तद्वृत्तान्ते निवेदिते राज्ञी व्यवहाराबहिर्मुखे दिगम्बरे पक्षपातमुज्झांचकार । अथ भाषोत्तरलेखनाय सुखासनसमासीनः कुमुदचन्द्रः पण्डितरत्नप्रभश्चचरणचारेणाऽक्षपटले समागतौ । तदधिकृतैः १ निर्माय समये 2 * पद्यमिदं मुद्रितकुमुदचन्द्रनाटकादुद्धृतम् (अं.१ श्लो.२२ T पद्यं मुद्रितकुमुदचन्द्रनाटकादुद्धृतम् (अं. १ श्लो. ३४ ) तत्र माणिक्येनोक्तम् । २ भक्षिपटके CM. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy