________________
प्रकाशः] सिद्धराजप्रबन्धः।
१०९ ३२) केवलिहूउं न भुञ्जइ चीवरसहिअस्स नत्थि निव्वाणं
इत्थी इया न सिज्झइ ई मयमेयं कुमुदचन्दस्स ॥ कुमुदचन्द्र इति भाषां लेखयामास । अथ सिताम्बराणामुत्तरम्३३) केवलि हूउविभुञ्जइ चीवरसहिअस्स अस्थि निव्वाणं
___ इत्थी हूयावि सिज्झइ मयमेयं देवसूरीणं ॥ इति भाषोत्तरलेखनानन्तरं निर्णीतवादस्थलवासरे श्रीसिद्धराजे समाजमागतवति, षट्दर्शनप्रमाणवेदिषु सभ्येषु समुपस्थितेषु कुमुदचन्द्रवादी पुरो वाद्यमानजयडिण्डिमो ध्रियमाणसितातपत्रः सुखासनसमासीनः पुरो वंशामलम्बमानपत्रावलम्बः सिद्धराजसभायां नृपप्रसादीकृतसिंहासने निषसाद । प्रभुश्रीदेवसूरयश्च श्रीहेमचन्द्रमुनीन्द्रसहिताः सभासिंहासनमेकमेवालंचक्रुः । अथ कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति पीतं तक्रं भवतेत्यभिहिते श्रीहेमचन्द्रस्तं प्रति जरातरलितमते किमेवमसमञ्जसं ब्रूषे श्वेतं तकं पीता हरिद्रेति वाक्येनाधःकृतः। युवयोः को वादीति पृच्छन्, श्रीदेवसूरिभिस्तन्निराकरणायौयं भवतः प्रतिवादीत्यभिहिते कुमुदचन्द्रः प्राह । मम वृद्धस्यानेन शिशुना सह को वाद इति तदुक्तिमाकग्रॅहमेव ज्यायान् भवानेव शिशुः योऽद्यापि कटीदवरकमपि नादत्से निवसनं च । इत्थं राज्ञा तयोर्वितण्डायां निषिद्धायामित्थं पणबन्धो मिथः समजनि पराजितैः श्वेताम्बरैदिगम्बरत्वमङ्गीकार्य । दिगम्बरैस्तु देशत्याग इति निर्णीते पणबन्धादनु स्वदेशकलङ्कभीरुभिर्देवाचार्यैः सर्वानुवादपरिहारपरैर्देशानुवादपरायणैः कुमुदचन्द्रं प्रति प्रथमं भवान्कक्षीकरोतु पक्षमित्यभिहिते-- ३४) *खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालय
च्छायांमाश्रयते शशी मशकतामायान्ति यत्राद्रयः । १ तत्तिरस्करणाय DH २ दोरकं A c M * पथमिदं मुद्रितकुमुदचन्द्रनाटकावुद्धतम् (अं.५लो.६) ३ उर्णनाभालयछायां P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org