________________
प्रकाशः] सिद्धराजप्रबन्धः।
१०७ श्रीशान्तिसूरिविरचितोत्तराध्ययनवृहद्वत्तौ दिगम्बरवादस्थले चतुरशीतिविकल्पजालोपन्यासे भवद्भिः प्रतन्यमाने दिग्वाससो मुखे मुद्रा पतिष्यतीत्यादेशानन्तरं गुप्तवृत्त्या कुमुचन्द्रसन्निधौ पण्डितान्प्रस्थाप्य कस्मिन् शास्त्रे विशेषकौशलमिति ज्ञापिते । २८) देवादेशयं किं करोमि सहसा लकामिहैवानये
जम्बूद्वीपमितो नयेयमथवा वारांनिधिं शोषये । हेलोत्पाटिततुङ्गपर्वतशिरोग्रावत्रिनेत्राचल
क्षेपक्षोभविवर्धमानसलिलं बध्नामि वा वारिधिम् ॥ इति तदुक्तिश्रवणात्सिद्धान्तकुशलतां तस्याल्पीयसीमवगम्य जितं मन्यमानाभ्यां श्रीदेवाचार्यश्रीहेमचन्द्राभ्यां प्रमुदितं । अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिष्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदरे गतः । तेन कस्त्वमित्यभिहिते अहं देवः । देवः कः । अहं । अहं कः। त्व । त्वं कः । श्वा । श्वा कः । त्वं । कः अहं देव इति तयोरुक्तिप्रत्युक्तिबन्धे चक्रभ्रमं भ्रमति, आत्मानं देवं दिगम्बरं श्वानं च संस्थाप्य यथागतं जगाम । तेन चक्रदोषप्रादुष्करणेन विषादनिषादसम्पर्कात् । २९) *हहो श्वेतपटाः किमेष विकटाटोपोक्तिसंटकितैः
संसारावटकोटरेऽतिविकटे मुग्धो जनः पात्यते । १ शान्तिसूरिकृतोत्तराध्ययनसूत्रवृत्तौ ( ३-९) वर्ततेऽयमुपन्यासः । २ देवाज्ञापय D ३ अथानये किं C ४ वारांनिधिं D ___T अत्र निम्नावतारितो भाग II आदर्शेऽधिकः
अथ वाहडनामा महोपासकः श्रीदेवसूरिं व्यजिज्ञपत् प्रभो प्रकटकपटेन दिक्पटेन गागिलाद्याः प्रधानपुरुषाः द्रव्यव्ययं विधाय भेदिताः सन्ति । यदि पूज्या मादिशन्ति तदा अहमपि तथा करोमीति श्रुत्वा देवसूरयः प्राहुः यदि ब्राह्मीप्रसादतो न जयस्तत्किमुत्कोचैः संकोचैः सत्यसंविदो ततोऽलमनेन प्रयासेन । ५ विषादसम्पर्कात् ॥ * पद्यमिदं मुद्रितकुमुदचन्द्रनाटकादुद्धृतम् (मैं. १ को. ३१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org