________________
१०६
प्रबन्धचिन्तामणिः ।
[ तृतीयः विश्राणयामास । तीर्थदर्शनाचोन्मुद्रितलोचन इवामृताभिषिक्त इव जातः । अत्र पर्वते सल्लकीवनसरित्पूरसंकुले इहैव विन्ध्यं करिष्यांमीत्यवन्ध्यप्रतिज्ञो, हस्तियूथनिष्पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिनं धिग्मामिति श्रीदेवपादानां पुरतो राजलोकविदितं स्वं निनिन्द । सानन्दो गिरेरवततार ।
३८ अथ श्रीदेवसूरिचरितं व्याख्यास्यामः । तस्मिन्नवसरे कुमुदचन्द्रनामा दिगम्बरस्तेषु देशेषु चतुरशीतिवादैादिनो निर्जित्य कर्णाटदेशा. द्गुर्जरदेशं जेतुकामः कर्णावतीं प्राप । तत्र भट्टारकश्रीदेवसूरीणां चातुर्मासके स्थितानां श्रीअरिष्टनेमिप्रासादे धर्मशास्त्रव्याख्याक्षणे वचनचातुरीमनुच्छिष्टामाकर्ण्य तत्पण्डितैस्तवृत्तान्ते निवेदिते कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं प्रक्षेपितवान् । अथ तैर्महर्षिभिः पण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णिततयाऽवज्ञाते सति श्रीदेवाचार्यजामि तपोधनां चेटकैरधिष्ठितां विधाय नृत्यजलानयनादिभिर्विविधाभिर्विडम्बनाभिर्विडम्ब्य तेषु चेटकेप्वपहृतेषु तान् भृशं पराभवान्निर्भर्त्सनपरानपवार्य श्रीदेवसूरिभिरुक्तं वादविद्याविनोदाय भवता पत्तने गन्तव्यं । तत्र राजसभायां भवता सह वादं करिष्याम इत्यादिष्टे कृतकृत्यमनाः स आशावसनः श्रीपत्तनपरिसरं प्राप्तः । श्रीसिद्धराजेन मातामह गुरुरिति प्रत्युद्गमादिना सत्कृतस्तत्रावासान्दत्वा तस्थौ । श्रीसिद्धराजेन वादनिष्णाततां पृष्टाः श्रीहेमाचार्याश्चतसृषु विद्यासु परं प्रावीण्यं बिभ्राणं जैनमुनिगजयूथाधिपं सिताम्बरशासनवज्रपाकारं नृपसभाशृङ्गारहारं कर्णावतीस्थितं श्रीदेवाचार्यT वादविद्याविदं वादीभकण्ठीरवं प्राहुः। अथ राज्ञा तदाव्हानाय प्रेषितविज्ञप्तिकायां श्रीसंघलेखेन सममागतायां श्रीदेवसूरयः पत्तनं प्राप्य नृपोपरोधाद्वाग्देवीमाराधयामासुः । तया तु वादिवेतालीय
१ विन्ध्यवनं रचयिष्यामीति. ० २ शान्त्याचार्यकृतोत्तराध्ययनवृत्तौ । ३ उपाहतेषु ०३T अतः T पर्यन्तो भाग ३ आदर्श नास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org