________________
१०३
प्रकाशः]
सिद्धराजप्रबन्धः । एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलं
मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥ विशेषेणास्मिन्काव्ये प्रशस्यमाने श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रश्चिन्त्यमेतदित्यवादीत् । अथ तैरेव सर्वैरनुयुक्तः, एतस्मिन्काव्ये सैन्यवाचको दलशब्दः कमलशब्दस्य नित्यक्लीबत्वमिति दूषणद्वयं चिन्त्यं । ततः सर्वानपि पण्डितानुपरुध्य दलशब्दो राजसैन्यार्थे प्रमाणीकारितः कमलशब्दस्य तु लिङ्गानुशासनसिद्धं नित्यक्लीबत्वं केन निर्णीयतं इति पुंस्त्वं च धत्ते न वेत्यक्षरभेदः कारितस्तदा श्रीसिद्धराजस्य सञ्जातदृष्टिदो. षेण पं० रामचन्द्रस्य वसतौ प्रविशत एव लोचनमेकं स्फुटितम् ।।
३४ अथ कदाचित् ॥ २१) आयुक्तः प्राणदो लोके वियुक्तो मुनिवल्लभः ।
संयुक्तः सर्वथानिष्टः केवली स्त्रीषु वल्लभः ॥ इति डाहलदेशीयनरपतियमलपत्रान्ते लिखितश्लोकव्याख्यानावसरे तूष्णींस्थितेषु पण्डितेषु श्रीहेमचन्द्राचार्य राज्ञा पृष्टैरिशब्दमध्याहार्य व्याख्यातः । अन्यदा सपादलक्षक्षितिपतिना ।। २२) पइली ताव न अणुहरइ गोरीमुहकमलस्त ।
इति समस्यादोधकार्थे प्रहिते तैः कविभिरपूर्यमाणे । अदिठी किमु उम्मीयइ पडिपयली चन्दस्स ॥ इति श्रीहेमचन्द्रनामा मुनीन्द्रस्तां पूरयामास ॥ १ प्रमाणीकृतः D २ लिङ्गानुशासनासंसिद्धं H ३ निर्नीयते a ४ प्रयुक्तः d ५ डाहलदेशीयनृपतेः सान्धिविग्रहिकैरानीतयमलपत्रेषु श्लोकमेनं लिखितं निशम्य किमेतदिति पृष्टास्ते प्राहुः । तवैकैकप्रधाना भूयांसो विद्वांसस्तत्पार्थाद्दुर्बोधोऽयं श्लोको व्याख्येय इति तद्वाचमाकर्ण्य सर्वैरपि विद्वद्भिरज्ञाततदथैविमृशद्भिर्नृपेण पृष्टा हेमाचार्या हारशब्दमध्याहार्य व्याचख्युः L B M आदर्शेष्वेवमत्रपाठः ७ ओलीतावनु अहरइ b अदिढि किमवन्नियइ तडिपयली b D १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org