SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ तृतीय : श्रीहेमचन्द्राचार्यैः सर्वविद्वज्जनानुमते प्रशस्तिकाव्ये भवता वैदग्ध्यं किमपि न प्रकाश्यमित्युक्त्वा पण्डितरामचन्द्रोऽनुशिष्यस्तत्रं प्रहितः । ततः सर्वविद्वद्भिः शोध्यमानायां प्रशस्तौ नृपोपरोधाच्छ्री पालकवेर्दाक्ष्यदाक्षिण्याच सर्वेषु काव्येषु मन्यमानेषु - १०२ २०) कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत्क्षमं स्वस्यापि' स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि । १ अनुशिक्ष्य: B २ स्वस्थापि D • *निम्नावतारितो भागः मुद्रितपुस्तके ३३ प्रबन्धात्पूर्वं प्रदत्तः a H L M आदर्शषु नास्ति - एकदा श्रीसिद्धेन रामचन्द्रः पृष्टो ग्रीष्मे दिवसाः कथं गुरुतराः । रामचन्द्रः प्राह देव श्रीगिरिदुर्गमल्ल भवतो दिग्जैत्रयात्रोत्सवे धावद्वी तुरङ्गवल्गनखुरक्षुण्णक्षमा मण्डलात् । वातोद्भूतरजो मिलत्सुरसरित्संजातपङ्कस्थलीदूर्वा चुम्बन चञ्चुरा रविहयास्तेनातिवृद्धं दिनम् ॥ १ ॥ लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥ २ ॥ अथ कदाचिद्राज्ञा प्रथिलाचार्या जयमङ्गलसूरयः पुरवर्णनं पृष्टा ऊचुः एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सृज्य बाहोर्बला अन्यच्च hi गुरु सिद्धभूपतिसरस्तुम्त्रां निजां कच्छपीम् ॥ १ ॥ महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन धरिण्यां तत्करोतु कः ॥ २ ॥ यस्यान्तर्गिरिशागारदीपिकाः प्रतिबिम्बिताः । शोभन्ते निशि पातालव्यालमौलिमणिश्रियः ॥ ३॥ ( तृतीयं पद्यं BHLM आदर्शेषु नास्ति आदर्श मुद्रितपुस्तके चासम्बद्धं प्रदत्तं की तिकौमुद्यां ( स. १ श्लो. १४) च वर्तते ).. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy