SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] सिद्धराजप्रबन्धः ३२ अथ श्रीपत्तने प्राप्तो नृपः । प्रस्तावे सरोवरव्ययपदेषु वाच्यमानेषु सापराधव्यवहारिसुतदण्डपदाल्लक्षत्रयं कर्मस्थाये व्यवकलितमिति श्रुत्वा लक्षत्रयं तस्य गृहे प्रस्थापयामास । ततः स व्यवहारी उपायनपाणिपोपान्तमुपेत्य किमेतदिति विज्ञपयन् राज्ञादिष्टः । यः कोटिध्वजो व्यवहारी स कथं ताडङ्कचौरस्त्वयाऽस्य धर्मस्थानस्य धर्मविभागः प्रार्थितोऽपि यन्न लब्धस्ततः प्रपञ्चचतुरण मृगमुखव्याघेणान्तःशठेन प्रत्यक्षसरलेन त्वयेदं कर्म निर्मितम् ॥ ३३ . अथ श्रीपालकविना सहस्रलिङ्गसरोवरस्य रचितायां प्रशस्तिपट्टिकायामुत्कीर्णायाम् तत्प्रशस्तिशोधनाय सर्वदर्शनेष्वाहूयमानेषु १ सरोवरकर्मस्थायत्रिपदेषु : DH * निम्नावतारितो भागः a H LM आदर्शेषु नास्ति परन्तु मुद्रितपुस्तकेऽधिको वर्ततेयतः-परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १॥ मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्तरीभूतमेतद्भूतस्य लक्षणम् ॥ २॥ इत्यादि वाक्यैभृशं खण्डितः । * मुद्रितपुस्तके निम्नलिखितमधिकं-तत्स्थकाव्यमिदम् । न मानसे माद्यति मानसं मे पम्पा न संपादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धिभर्तुः ॥ (पद्यमिदं a H L M आदर्शेषु नास्ति परन्तु कीर्तिकौमुद्यां वर्तते तत्र च पाठभेदो यथाः ... ... ... ... ... अच्छोदमच्छोदकमप्यसारं सरोवरे राजति सिद्धभर्तुः ॥ (१-७८)) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy