________________
१००
प्रबन्धचिन्तामणिः । [ तृतीयः सादौ स्वयं स्थापितौ प्रदत्तध्वजौ तदनयोः प्रासादयोः सुकृतिभिरुद्भियमाणयोश्चत्वारो युगा व्यतीताः । अन्यच्च श्रीशत्रुञ्जयमहागिरेनगरमिदमुपत्यकाभूमिः । यतो नगरपुराणे उक्तं१७) पञ्चाशदादौ किल मूलभूमे
दशोर्श्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टैव तु योजनानि
मानं वदन्तीहं जिनेश्वराद्रेः ॥ इति कृतयुगे आदिदेवश्रीऋषभस्तत्सूनुर्भरतस्तन्नाम्ना भरतखण्डमिदं प्रतीतम्१८) *नामेः सुतः स वृषभो मरुदेविसूनु
यो वै चचार समदृग् मुनियोगचर्याम् । तस्याहताद्यमृषयः पदमामनन्ति
स्वच्छः प्रशान्तकरणः समदृक् सुधीर्थे ॥ १ ॥ १९) xअष्टमो मरुदेव्यां तु नाभेजांत उरुक्रमः ।
दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ २ ॥ इत्यादिपुराणोक्तान्युदीर्य विशेषप्रत्ययाय श्रीवृषभदेवप्रासादकोशाच्छ्रीभरतभूपनामाङ्कितं पञ्चजनवाद्यं कांस्यतालमानीय नृपाय दर्शयन्तो जिनधर्मस्याद्यत्वं स्थापयामासुः । ततः खेदमेदुरमनसा राज्ञा हायनान्ते जैनप्रासादेषु ध्वजारोपः कारितः ।
१ इति CH* पद्यमिदं भागवतपुराणस्थं तत्र च पाठःनाभेरसावृषभ आस सुदेवीसुनुयो वै चचार समग् मुनियोगचर्याम् । यत्पारहस्यमृषयः पदमामनन्ति
स्वच्छः प्रशान्तकरणः परिमुक्तसङ्गः ॥ भा. २-७-१० २ रुतास्ति ३ आहेतश्च ऋषयः D आईसत्य HP ४ सुधीः सः D अष्टमे मेरुदेव्यामिति पाठो भागवते १-३-१३ ५ कृतः CD ६ यथावस्थिततदाद्यत्वस्थापनाय L M ७ द्विजा जैनधर्मस्याद्यधर्मत्वं स्थापयांचा: DHM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org