________________
९९
प्रकाशः]
सिद्धराजप्रबन्धः। तिप्रभृतीनामुत्तमभूपतीनां मूर्तीः कारयित्वा तत्पुरो योजिताञ्जलिं स्वां मूर्ति निर्माप्य देशभङ्गेऽपि प्रासादस्याभङ्गं याचितवान् । तस्य प्रासादस्य ध्वजारोपप्रस्तावे सर्वेषामपि जैनप्रासादानां पताकावरोहं कारितवान् । यथा मालवकदेशे महाकालवैजयन्त्यां सत्यां जैनप्रासादेषु न ध्वजारोप इति ।
३० अन्यदा सिद्धराजस्य मालवकमण्डलं प्रति यियासतः केनापि व्यवहारिणा संहस्रलिङ्गकर्मस्थाये याच्यमाने विभागे तत्सर्वथाऽदत्त्वैव कृतप्रयाणस्य कतिपयदिनानन्तरं कोशाभावात्कर्मस्थायस्य विलम्बमवगम्य तेन व्यवहारिणा सुतस्य पात्किस्यापि धनाधिपस्य वध्वास्ताडङ्कमपहार्य तद्दण्डपदे द्रव्यलक्षत्रयं दत्तं । तेन कर्मस्थायः स जात इति वातौं शृण्वतो मालवके वर्षाकालं तस्थुषो राज्ञो वचनगोचरातीतः प्रमोदः संजातः । अथ प्रावृषेण्ये घने प्रगल्भवृष्टया क्षोणीमेकार्णवां कुर्वति वर्धापनिकाहेतोः प्रधानपुरुषैः प्रहितः मरुदेशीयपुरुषो नृपतिपुरतः सविस्तर वर्षास्वरूपं व्यज्ञपयत्। तदा त्वागतेन गूर्जरधूर्तेण नरेण सहस्रलिङ्गसरोभृतमिति स्वा. मिन् वर्द्धाप्यसे इति तद्वाक्यानन्तरमेव सिक्वकपतितमार्जारस्येव मरुवद्धस्य पश्यतः सर्वाङ्गलग्नमाभरणं नृपति राय ददौ ।
३१ अथ वर्षानन्तरं प्रत्यावृत्तः क्षितिपतिः श्रीनगरमहास्थाने दत्तावासो नगरप्रासादेषु ध्वजस्यालोके क एते प्रासादा इति ब्राह्मणान्पप्रच्छ । तैर्जिनब्रह्मादीनां प्रासादस्वरूपे निवेदिते सामर्षों राजा मया गूर्जरमण्डले जैनप्रासादानां पताकासु निषिद्धासु किं भवतामिह नगरे पताकावजिनायतनमित्यादिशंस्तैर्विज्ञपयांचक्रे । अवधार्यतां श्रीमन्महादेवेन कृतयुगप्रारम्भे महास्थानमिदं स्थापयता श्रीऋषभदेवनाथश्रीब्रह्मप्रा
१ सहस्रलिङ्गकर्मस्थायविभागं याचितो राजा तददत्त्वैव मालवकंप्रति प्रयाणमकरोत् ३ २ ताडकेऽन्यहारिते D ३ कर्मस्थायं परिपूर्ण शृण्वतो H ४ वर्धाप. यसे bc ५ मञ्चरचनाकृतसविसरस्तत्र b HM ६ ध्वजवजमालोक्य c M ७ श्रीब्रह्मप्रासादयोः सुकृतिभि P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org