________________
प्रबन्धचिन्तामणिः।
[तृतीयः विद्वत्तेत्यभिहिते राज्ञा पृष्टाः श्रीहेमचन्द्राचार्याः- *पुरा श्रीजिनेन श्रीमन्महावीरेणेन्द्रस्य पुरतः शैशवे यद्व्याख्यातं तज्जैनव्याकरणम. धीयामहे वयमिति तद्वाक्यानन्तरमिमां पुराणवार्तामपहायास्माकमेव सन्निहितं व्याकरणकर्तारं कमपि ब्रूतेति तपिशुनवाक्यादनु ते पाहुः । यदि श्रीसिद्धराजः सहायीभवति तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं
*B D आदर्शयोरत्र निम्नावतारितो वृत्तान्तोऽधिक उपलभ्यतेकैश्चिदसहिष्णुभिर्न मेने ॥ हेमचन्द्रनामा शिष्यः कदाचिन्नवलुञ्चितशिरा जलविहरणाय व्रजन् गजभयात्सौधभित्तिस्थितो गवाक्षस्थेनालिगपुरोहितेन सारिणा पराभूतः गुरखो विज्ञप्तास्तैरुक्तो मिथ्या दुःकृतं देहि। तदुःखेन निःसृतोऽन्यगच्छीयदेवचन्द्रपद्माकराभ्यां सह श्रीकाश्मीरं प्रति । मार्गे नडोलाग्रामे सप्तमोपवासे श्रीसरस्वती प्रसन्ना जाता निजमूर्तिर्दर्शिता मित्रयोनिवेदिते । श्लोकसप्तशत्या ग्रामो वर्णितः मित्रद्वयस्य कार्यसि. द्धिहेतोः स्तम्भतीर्थे प्रविशन्तः केनापि देशान्तरिणाकार्यविद्या समर्पिता । इत्युक्तं च । मम मरणसमये मम शबोपरि त्रिभिर्नाभिमण्डले मन्त्रः स्मरणीयः शबो वरं दास्यति । एवं कृते स्मशाने मध्यरात्रौ शबेनोत्थाप्य वरो दत्तः। श्रीहेमचन्द्रेण राजप्रबोधो यचितः। देवचन्द्रेण हस्तसिद्धराकृष्टिविद्या । पह्माकरेण पाण्डित्यं । अत्रान्तरे कृतकृत्यहेमचन्द्रो वलितः । कालभैरवीयमध्ये चण्डिकाप्रासादे विश्रान्तस्तत्र लघुभैरवानन्दः शिष्यपञ्चशतीवृतः समेत्य, रेरे चण्डे चण्डे प्रचण्डे मह्यं मोदकान् देहीति भणित्वा सुवर्णमयकर्परमप्रे मुक्तं देव्या मोदकैर्भूतं । तेन सर्वेषां तेऽर्पिताः । हेमचन्द्रस्यापि हे शिष्य त्वमपि गृहाणेत्त्युक्तो तेन तस्यापि करौ स्तम्भयित्वोक्तं । यद्यस्ति सत्वं तदा त्वं भक्षयेथाः एवमुक्ते चरणयोः पतितः। ततः पत्तने आयातं श्रीजयसिंहदेव सन्मुखमेत्य समानीय हेमचन्द्रं गजाधिरूढं प्रवेश्य च पुरोहिततिरस्कृतं सुरिं, राज्ञा गुरव उपरोध्य हेमचन्द्रस्य पदस्थापना कारिता ॥ श्रीहेमचद्रसूरयोऽष्टम्यां चतुर्दश्यां च श्रीजयदेवभुवनं प्रयान्ति । पौषधागारे श्रीस्थूलिभद्रचरितं वाचयन्तः पुरोहितेन राज्ञोग्रे उपहसिताः, महाराज को. यमसत्प्रलापः सर्वरसभोजने पूर्वपरिचितवेश्यागृहे कामनिग्रहः। परं किं क्रियते भवद्वल्लभाः। राज्ञोक्तं । आचार्य अत्र समेष्यन्ति तदा वक्तव्यं परोक्षे न । सूरिष्वागतेषु राज्ञोक्तं । किं २ वाचयन्तो वर्तध्वे यूयं । सुरिभिः समग्रमपि संक्षेपतः स्थूलिभद्रचरितं कथितं। आलिगेनोक्तं । महाराज, विश्वामित्रपराशरप्रभृतयो इत्यादि, गुरुभिरुक्तं- असिंहो बलीयो द्विरद इत्यादि० आलिगेनोक्तं । अस्माकमेव शास्त्राणि पठित्वास्माकमेव पतयः संजाताः । गुरुभिरुक्तं । जैनेन्द्रव्याकरणं किं भवदीयं यत्पुरा १ नृपं व्याकरणकर्तारं P
* अयमग्रे संपूर्णो वर्तते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org