SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] सिद्धराजप्रबन्धः । पश्चाद्भागेन त्रिपोलिकपाटद्वये आहन्यमाने लोहमयार्गलायां भज्यमानायां बलाधिकतयान्तस्त्रुटिताद्गजात्कर्णाङ्गजमुत्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्यां पपात । स गजः सुभटतया विपद्य वडसरग्रामे स्वयशो. धवल एव यशोधवलनामा विनायकरूपेणावततार । १२) सिद्धेः स्तनशैलतटीपरिणतिदलितद्वितीयदन्त इव । बिभ्राणो रदमेकं गजवदनः सृजतु वः श्रेयः ॥ इति तदीया स्तुतिः ॥ २३ इत्थं दुर्गभङ्गे सूत्रिते सति समराधिरूढं यशोवर्माण षड्भिर्गुणैराबध्य तत्र निजामाज्ञां जगन्मान्यां दापयित्वा यशोवर्मरूपया प्रत्यक्षयशःपताकया रोचिष्णुः श्रीपत्तनं प्राप । . २४ प्रतिदिनं सर्वदर्शनेवाशिर्वाददानायाहूतेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः श्रीसिद्धराजमासाद्य नृपेण दुकूलदानादि. भिरावर्जितास्तैः सर्वैरप्यप्रतिमप्रतिभाभिरामैट्टैिधापि पुरस्कृतो नृपायेत्याशिषं श्रीहेमचन्द्रः पपाठ१३) भूमि कामगवि स्वगोमयरसैरासिञ्च रत्नाकरा मुक्तास्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुम्भी' भव । धृत्वा कल्पतरोदलानि सरलैदिग्वारणास्तोरणा न्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥ २५ अस्मिन्काव्ये निःप्रपञ्चे प्रपञ्च्यमाने तद्वचनचातुरीचमत्कृतचेता नृपस्तं प्रशंसन् , कैश्चिदसहिष्णुभिरस्मच्छास्त्राध्ययनबलादेतेषां १ यशोधलो नाम c यशोदेवोनाम M २ यशः पटहो मृत्वा न्यन्तरोऽभूदिति जिनमंडनेनोक्तं (जि. कु. प्रबन्धे ) * सिद्धहैमप्रशस्त्यां ( श्लो. २६) ३ कुम्भो c Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy