________________
९४
प्रबन्धचिन्तामणिः
[तृतीयः __२१ एवं तत्र यात्रायां व्यावृत्ते राज्ञि छलान्वेषिणा यशोवर्मणा मालवकभूपेन गूर्जरदेशे उपद्रूयमाणे सान्तूसचिवेन त्वं कथं निवर्तसे इति प्रोक्तः स राजाह । यदि त्वं स्वस्वामिनः सोमेश्वरदेवयात्रायाः पुण्यं ददासीत्युदीरितस्तच्चरणौ प्रक्षाल्य तत्करतले तत्पुण्यदाननिदानं जलचुलुकं निक्षिप्य तं राजानं निवर्तयामास । ततः श्रीसिद्धराजस्तद्वत्तान्तोपगमनेन क्रुद्धस्तं मन्व्येवमवादीत् । स्वामिन् यन्मया दत्तं तव सुकृतं याति ततस्तस्य सुकृतमन्येषामपि पुण्यवतां सुकृतं मया भवते प्रदत्तमेव । येन केनाप्युपायेन परचक्रं स्वदेशे प्रविशन्निवारणीयमेवेति वदता तेन नृपतिरनुनीतः ।
२२ ततस्तेनैवामर्षेण मालवमण्डलं प्रतिष्ठासुः सचिवान् शिल्पिनश्च सहस्रलिङ्गधर्मस्थानकर्मस्थाये नियोज्य त्वरितगत्या तस्मिन्निष्पद्यमाने नृपतिः प्रयाणकमकरोत् । तत्र स्वजयकारपूर्वकं द्वादशवार्षिके विग्रहे संजायमानेऽयं मया धाराभङ्गानन्तरं भोक्तव्यमिति कृतप्रतिज्ञो सचिवैः पत्तिभिः परमारराजपुत्रैः पञ्चशतीभिर्विपद्यमानैः राज्ञः प्रतिज्ञां दिनान्तेऽपि पूरयितुमक्षमैः कथञ्चित्तस्यां कणिकामयधाराभङ्गेन पूरितायां राजा पश्चाद्व्याघुटितुमिच्छुर्मुञ्जालसचिवं ज्ञापयामास । तेनापि त्रिकचतुष्कचत्वरप्रासादेषु निजपुरुषान्नियोज्य धारादुर्गभङ्गवार्तायां क्रियमाणायां तद्वासिना केनापि. पुरुषेण दक्षिणप्रतोल्यां यदि परबलं ढौकते तदैव दुर्गभङ्गो नान्यथेति तद्वाचमाकर्ण्य स विज्ञप्तः सचिवस्तं व्यतिकरं राज्ञे गुप्तविज्ञप्तिकया निवेदयामास । राज्ञापि तद्वृत्तान्तवेदिना तत्र सैन्ये ढौकिते दुर्गमं दुर्गमन्तर्विमृश्यं यशःपटहनाम्नि बलवदन्तावलेऽधिरूढसामलनाम्नारोहकेण
१ अनिदानं D २ क्रुद्धो नृपः पराङ्मुखोऽजनि । एकदा राजानं D श्रीसिद्धराजः श्रीपत्तनमुपेत्य सांतूम्हालवकनृपयोस्तं वृत्तान्तमवगम्य H B L M श्रीपत्तनागतं श्रीसिद्धराजं तद्वृत्तान्तावगमनेन क्रुद्धं ॥ ३ रक्षणीयं P ४ प्रति यियासुः B ५ कथंचिद्धारादुर्गभङ्ग कर्तुमप्रभूष्णुरद्य B H L ६ प्रतोल्या a P ७ दुर्गम न्तर्दुर्गम विमृश्य P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org