SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः । ९) दातुर्नार्थिसमो बन्धुर्भीरमादाय यः परात् । लक्ष्मीरूपादविगमं निस्तारयति तं खलु ॥ ३ ॥ अतो महादानैर्मत्सदृशी कापि नाभून्न भवितेति दर्षांध्माता निशि निर्भरं सुप्ता । तपस्विवेषधारिणा तेनैव देवेन जगदे । इहैव मदीयदेव - कुलमध्ये काचित्कापटिकनितम्बिनी यात्रायै आयातास्ति तस्याः सुकृतं याचनीयं त्वयेत्थमादिश्य तिरोहिते तस्मिन् राजपुरुषैरालोक्य समानीता । तस्मिन्पुण्ये याचितेऽप्यददाना कथमपि यात्रायां किं व्ययीकृतमिति पृष्टा सती सा प्राह । अहं भिक्षावृत्त्या योजनशतान्तरमतिक्रम्य ह्यस्तनदिवसे कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः पिण्याकमासाद्य तत्खण्डेन श्रीसोमेश्वरमभ्यर्च्य तदंशमतिथये दत्वा स्वयं पारणकमकार्ष । भवती पुण्यवती यस्याः पितृभ्रातरौ पतिसुतौ च राजानः । या त्वं बाहुलोडकरं मोचयित्वा सपादकोटिमूल्यया पूजया श्री सोमेश्वरं पूजितक्ती सो कथं मदीयपुण्यं लब्धेच्छासि यदि न कुप्यसि तदा किञ्चिद्वच्मि । तत्वतस्तवपुण्यान्मदीयं पुण्यं महीतले महीयः । यतः — १०) संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्ये दानमत्यल्पमपि लाभाय भूयसे ॥ २० इति युक्तेन वाक्येन तस्या गर्व निराचकारें ॥ सिद्धराजस्तु समुद्रोपकण्ठवर्ती एकेन चारणेन प्रकाशः ] ११) को जाणइ तुर्ह नाह चीत तु हालेईं चक्कवइलउ । लंकहले वाहमर्गु निहालई करणउत्तु ॥ इत्यादि स्तूयमानोऽभूत् ॥ १ देवायतने H L २ यात्रायां D ३ अगण्यपुण्यमर्जयन्ती कृशेऽपि पुण्ये कथं लुब्धासि CL४ सा गर्व विससर्ज be D सर्वकषं गर्व विससर्ज BLH कौ ६ हालंतु H ७ काले ८ मगा Bh अधोलिखितमधिकं BL M आदर्शेषु इति स्तूयमाने द्वितीयेनैवमूचे - धाइधोय पाय जलनिहि जेसल ताहिलाइ | जीता सवि राय इति विभूषण मेल्हिम् ॥ ५ Jain Education International ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy