________________
प्रकाशः]
सिद्धराजप्रबन्धः। व्याकरणं रचयामः ॥ अथ नृपेण प्रतिपन्नमिदं निर्वहणीयमित्यभिधाय तद्विसृष्टाः सूरयः स्वं स्थानं ययुः ।
२६ ततो यशोवर्मराज्ञः करे निःप्रतीकारां क्षुरी समर्प्य तदग्रासने वयं गजाधिरूढाः पुरमध्ये प्रवेशं करिष्याम इति राज्ञः प्रतिश्रवमाकर्ण्य मुञ्जालमन्त्रिणा प्रधानवृत्तिं मुञ्चता किमिति राज्ञा निर्बन्धपृष्टेन१४) मा स्म सन्धि विजानन्तु मा स्म जानन्तु विग्रहम् ।
आख्यातं यदि शृण्वन्ति भूपास्तेनैव पण्डिताः ॥ इति नीतिशास्त्रोपदेशात्स्वबुद्धथैव स्वामिना प्रतिज्ञातोऽयमर्थः सर्वथायतो न हित इत्युक्तं । ततो वरमसून्परिहरामि न तु विश्वविदितं प्रतिश्रवमिति नृपेणोक्ते मन्त्री दारुमयीं क्षुरिकां' पाण्डुवर्णसर्जरसेन पिहितां पृष्ठासनस्थस्य यशोवर्मणः करे समर्प्य तदग्रासनस्थो नृपतिः श्रीसिद्धराजः परमोत्सवेन श्रीमदणहिल्लपुरं प्रविवेश । __२७ प्रावेशिकमङ्गलानन्तरं नृपेण स्मारिते व्याकरणवृत्तान्ते बहुभ्यो देशेभ्यस्तद्वेदिभिः पण्डितैः सह सर्वाणि व्याकरणानि समानीय श्रीहेमाचायः श्रीसिद्धहेमाभिधानं पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्थप्रमाणं संवत्सरेण रचयाञ्चक्रे । राजवाह्यकुम्भिकुम्भे तत्पुस्तकमारोप्य सितातपवारणे ध्रियमाणे चामरग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्यपूजापूर्व कोशागारे न्यधीयत । ततो राजाज्ञयान्यानि व्याकरणान्यपहाय तस्मिन्नेव व्याकरणे सर्वत्राधीयमाने केनापि मत्सरिणा भवदन्वयवर्णनाविरहितं व्याकरणमित्युक्ते श्रीहेमाचार्यः क्रुद्धं राजानं राजमानुषादवगम्य द्वात्रिंशच्श्लोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रितपादेषु तान्सम्बन्धं दधानानेव लेखयित्वा प्रातर्नुपसभायां वाच्यमाने व्याकरणे चौलुक्यवंशोपश्लोककेन श्लोकान्वाचयन्नृपं संतोषयामास । यथा
१-२ नृपस्तु प्रतिज्ञाभङ्गभीरुवरमसन्परिहरामि नतु विश्वविश्रुतं प्रतिश्रुतमिति नृपवचनात् H L M ३ छुरिकां c D ४ व्याकुलानन्तरं c ५ संबद्धान् D
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org