________________
प्रबन्धचिन्तामणिः ।
[ तृतीयः
- १२ अन्यदा धूर्तेः कैश्विदेकसंमत्या पृथक् पृथक् युगलीभूय तत्पथमयुगलिया विपणिमार्गे किमद्य यूयं वपुष्यपटव इति पृष्टेः द्वितीययुगलिकया श्रीमुञ्जालस्वामिप्रासादसोपाने पृष्टः तृतीययुगलिकया तु राजद्वारे चतुर्थयुगैलिकया द्वारतोरणे तथैव, ततो भूयो भूयः पृच्छोत्पन्नेन शङ्का दूषणेन तत्कालोत्पन्नमाहेन्द्रज्वरस्त्रयोदशदिने विपेदे स वैद्यः ॥ इति वैद्यलीलाप्रबन्धः ||
१३ अथ सान्तूमन्त्रिण उपायाद्राजपाटिकाव्याजेन श्रीकर्णाङ्गजेनान्यायकारी मदनपालो व्यापादितः ॥
९०
:
१४ अथ कश्चिन्मरुमण्डलवास्तव्यः श्रीमालवंश्ये उदाभिधानो वणिक् प्रावृट्काले प्राज्याज्यक्रयाय निशीथे व्रजन् कर्मकरैरेकस्मात्केदारादपरस्मिन् जलैः पूर्यमाणे तान्के यूयमिति पप्रच्छ । तैर्वयममुकस्य कामुका इत्युक्ते ममापि कापि सन्तीति पृच्छन्, तैः कर्णावत्यां सन्तीत्यभिहिते सं सकुटुम्बस्तत्र गतः वायटीयजिनायतने विधिवद्देवान्नमस्कुर्वन्कयापि लाछिनाम्न्या छिम्पिकया श्राविकया साधर्मिकत्वाद्ववन्दे । तया भवान् कस्यातिथिरित्युदीरितः, वैदेशिकोऽहमिति भवत्या एवातिथिरिति वदन् तया सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा निर्जंतल कापि गृहे निवासितः ।
१५ कालक्रमेण संपन्न संपदिष्टिकाचितं गृहं चिकीर्षुः खातावसरे निरवधिं शेवधिमधिगम्य तामेव स्त्रियमाहय समर्पयन् तया निषिद्धः । तत्प्रभावेण ततः प्रभृति स उदयनमन्त्रीति नाम्ना पप्रथे * । तेन
१ प्रणामपूर्वकं आकस्मिकं वपुरपाटवं पृष्ट: BH २ श्रीमुञ्जालस्वामिप्रासादे चापृछ्यमानः शङ्काविषदोषेणैव मृतः H D ३ अथ सान्तूनामा मन्त्री अन्यायकारिणं तं मदनपालं कालमिव जिघांसुः कदाचित्कर्णाङ्गजं गजेऽधिरोप्य राजपाटिकाव्याजेन तद्गृहे नीत्वा पत्तिभिस्तं व्यापादयामास B L M ४ श्रीमालदेश्यः P ५ पोषमाणे BC_६_अपरस्मिन्पूर्यमाणेभ्भोभिः के यूयमिति B ७ निर्मापितकायमाने निजतलके HL यतः
कृतप्रयत्नानपि नैव कांचन स्वयं शयानानपि सेवते परान् ।
येsपि नास्ति द्वितयेऽपि विद्यते श्रियः प्रचारो न विचारगोचरः॥ इत्यधिकं पद्यं DB
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org