________________
सिद्धराजप्रबन्धः ।
कर्णावत्यामतीतानागतवर्तमानचतुर्विंशतिजिन समलंकृतः श्रीउदयनविहारः कारितः । तस्यापरमातृकाश्चत्वारः सुताः चाहडदेव आम्बडवाहडसोलाकैनामानोऽभूवन् ।
प्रकाशः ]
१६ अथान्यस्मिन्नवसरे सान्तूनामा महामात्यः करेणुस्कन्धारूढो राजपाटिकायां व्रजन् व्यावृत्तः स्वकारितसान्त्वसहिकायां देवनमचिकीर्षया तत्र प्रविशन् वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं नमश्चकार । तत्र क्षणं स्थित्वा भूयस्तं प्रणम्य प्रतस्थे । ततः स लज्जया घोवदनः पातालं प्रविविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्रीहेमसूरीणां समीपे उपसम्पदमादाय संवेगरससम्पूर्णः श्रीशत्रुञ्जये गत्वा द्वादशवर्षाणि तपस्तेपे । किञ्च तेनान्ये समानाः प्रतिबोधिताः मुनिश्चिन्तयति ।
४) रे रे चित्त कथं भ्रातः प्रधावसि पिशाचवत् । अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ॥ १ ॥
५) संसारमृगतृष्णासु मनो धावसि किं वृथा । सुधामयमिदं ब्रह्मसरः किं नावगाहसे ॥ २ ॥ *
१७ कदाचित्समन्त्री श्रीशत्रुञ्जये देवपादानां नमस्करणायोपगतो दृष्टपूर्वमिव मुनिं तं प्रणम्य तच्चरित्रविचित्रितमनास्तं गुरुकुलादि पप्रच्छ । तत्त्वतो भवानेव गुरुरिति तेनोक्ते कर्णौ विधाय पाणिभ्यामेवं मादिशे त्यज्ञातवृत्त्यैवं विज्ञपयंस्तेन मन्त्र्यूचे ॥
१ आस्थडदेवआम्बडदेवबाहडसोल्लाः ९ सोलदेवभट d H सोल: KLM २ गौतममिव नमश्चक्रे LD M * द्वितारकान्तर्गत: पाठ: a LKM आदर्शेषु नोपलभ्यते ३ इति ध्यायन्स मुनि: कायोत्सर्गे तस्थौ B ४ तद्गुरु b
c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org