________________
प्रकाशः ]
सिद्धराज प्रबन्धः ।
८ श्रीपत्तने तेन राज्ञा श्रीकर्ण मेरुप्रासादः कारितः ॥ सं० ११२० चैत्रसुदि ७ प्रारभ्य सं० ११५० पौषवदि २ यावत् वर्ष २९ मास ८ दिन २१ अनेन राज्ञा राज्यं कृतं ।
'
९ अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जसवृत्त्याऽवर्तत । तेन लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरिकैस्तत्कलाचमत्कृतचित्तैः काञ्चनदानपूजयाऽभ्यर्च्यमानः कदा - चिन्निजसौधे समानीतः कृतके शरीरामये नाडीदर्शनात्पथ्यसज्जतां निवेदयन्निदमूचे । तदेव नास्तीति । ततस्त्वं मया रोगप्रतीकाराय नाकारितः किंतु पथ्यदानेन बुभुक्षाप्रतीकारार्थमेव । ततो द्वात्रिंशत्सहस्राण्युपनयेत्युक्त्वा तेन बन्दीकृतस्तत्तथेति' निर्मायेत्यभिग्रहमग्रहीत् । यदतः परं प्रतीकारनिमित्तं नृपतेः सौधमपहाय नान्यत्र गन्तव्यमिति ।
1
१० ततः परमातुराणां प्रस्रवणा लोकनान्निदान चिकित्सितं कुर्वाणः केनापि मायाविना कृतकामयचिकित्सित कौशलं बुभुत्सुना वृषभप्रस्रवणे दर्शिते सम्यक् तदवगम्य शिरोधूननपूर्वकं वृषभः स बहुखादनेन गोडिर्ते इत्यस्मै सत्वरमेव तैलनाली दीयतां नो चेद्विपत्स्यते इति तच्चित्ते चमस्कारमारोपयामास ।
८९
११ अन्यदा राज्ञा निजग्रीवाबाधाप्रतीकारं पृष्टः । पलद्वयप्रमाणमृगमदपकले पेन शिरोऽर्त्तिरुपशाम्यतीति व्याहृते तथाकृते ग्रीवा सज्जीभूता ततो नृपसुखासनवाहिना पामरेण नरेण शिरोबाधाप्रतीकारं पृष्टः । कैरी - रमूलरसेन तन्मृत्तिकासहितेन लेपं विधेहीत्यभिदधे । ततो राज्ञा किमेतदिति पृष्ठे देशकालौ बलं शरीरप्रकृतिं च विमृश्यायुर्वेदविदा चिकित्सा क्रियते इति विज्ञपयतिस्मै ॥
१ तत्कलाहृतहृदयैः C BHI २ समानीय कृत्रिमे L दिष्टस्तत्तथेति bD H ४ मोडित: BH ५ वृद्धकरीर B विप्रलब्ध: b D उपालब्धः BH ७ विज्ञप्य गृहं गतः B
१२
Jain Education International
For Private & Personal Use Only
-
B ३ इत्या६ भूयो राज्ञा
www.jainelibrary.org