________________
प्रबन्धचिन्तामणिः |
१०४) त्यागैः कल्पद्रुम इव भुवि त्रासिताशेषदौस्थ्यः साक्षाद्वाचस्पतिरिव जनान्दृब्धनानाप्रबन्धः । राधावेवेऽर्जुनइव चिरात्तस्य की यत्कचित्तैराहूतो द्रागमरनिकरैः स्वर्ययौ भोजराजः ॥ ३ ॥ इति श्रीमेरुतुङ्गाचार्यविरचिते प्रबन्धचिन्तामणौ श्रीभोजभीमभूपयोर्नानावदातवर्णनो नाम द्वितीयः प्रकाशः ॥
८४
शुक्तिद्वयपुटे भोज यशोऽब्धौ तव रोदसी । मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम् ॥ २१ ॥ अभूत्प्राची पिङ्गा रसपतिरिव प्राप्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणात्क्षीणास्तारा नृपतय इवानुद्यमपरा न राजन्ते दीपा द्रविणरहितानामिव गृहाः ॥ २२ ॥ समुन्नतघनस्तनस्तबकचुम्बितुम्बीफल - क्वणन्मधुरवीणया विबुधलोकलोलवा । त्वदीयमुपगीयते हर किरीटकोटिस्फुरतुषारकरकन्दली किरणपूरगौरं यशः ॥ २३ ॥ बल्लालक्षोणीपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी । क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुपातैर्मधुकर निकरैर्धूमशङ्कां बिभर्ति ॥ २४ ॥ स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुतै रात्रिरियं जिता कमलया देवी प्रसायाधुना । इत्यन्तःपुरसुन्दरी जनगणे न्यायाधिकं ध्यायता देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ।। २५ ।। वहति भुवनश्रेणीं क्षेषः फणाफलकस्थित कमठपतिना मध्येपृष्ठ सदा स च धार्यते । तमपि कुरुते क्रोडाधीनं पयोनिधिरादरादह महतां निःसीमानश्चरित्रविभूतयः ॥ २६ ॥ श्रीभोजराजेन्द्रे गलन्ति त्रीणि तत्क्षणात् । aat aai कवेः कष्टं नीविबन्धी मृगीदृशाम् ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org