SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] भोजभीमप्रबन्धाः । १०३) श्रीभोजे मृगयां गतेऽपि सहसा चापे समारोपिते ऽप्याकर्णान्तगतेऽपि मुष्टिगलितेऽप्येणांगलग्नेऽपि च । न त्रस्तं न पलायितं न चलितं नोत्कंपितं नोत्प्लुतं मृग्या मशिनं करोति दयितं कामोऽयमित्याशया ॥२॥ श्रुत्वा श्रीभोजराजप्रचुरवितरणं ब्रीडशुष्कस्तनी सा व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिश्चर्वितं सर्वमूर्ध्याम् ॥ १३ ॥ अस्य श्रीभोजराजस्य द्वयमेव सुदुलेभम् ! शत्रूणां शृंखलैर्लोहं तानं शासनपत्रकैः ॥ १४ ॥ सभणय न्यतानपि गजान् भोजं ददानं प्रेक्ष्य पार्वती। गजेन्द्रवदनं पुत्रं रक्षत्यद्य पुनः पुनः ॥ १५॥ घटो जन्मस्थानं मृगपरिजनो भूर्जवसनं वने वासः कन्दादिकमशनमेवंविधगुणः । अगस्त्यः पाथोधिं यदकृत कराम्भोजकुहरे क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १६ ॥ रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गश्चरणविकलः सारथिरपि । रवियत्येवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः० ॥ १७ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिविपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्याजौ रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः ॥ १८॥ धनुः पौष्पं मौर्वी मधुकरमयी चञ्चलदृशां दृशां कोणो बाणः सुहृदपि जडात्मा हिमकरः । स्वयं चैकोऽनङ्गः सकलभुवनं व्याकुलयति क्रियासिद्धिः ॥ १९ ॥ अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृते देवेत्थं जगतीतले पुरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वशत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम् ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy