________________
प्रबन्धचिन्तामणिः।
[द्वितीयः १०२) देव त्वत्करनीरदे दशदिशि प्रारब्धपुण्योन्नतौ
चञ्चत्काञ्चनकङ्कणद्युतितडित्स्वर्णामृतं वर्षति । वृद्धा कीर्त्तितरङ्गिणी समभवत्प्रीता गुणग्रामभूः पूर्ण चार्थिसरः शशाम विदुषां दारिद्यदावानलः॥१॥ खिन्नं मण्डलमैन्दवं, विलुलितस्रग्भारनद्धं तमः प्रागेव प्रथमानकैतकशिखालीलायितं सुस्मितम् । शान्तं कुण्डलताण्डवं, कुवलयद्वन्द्वं तिरोमीलितं वीतं विद्रुमसीत्कृतं, नहि ततो जाने किमासीदिति ॥ ७ ॥ अहो मे सौभाग्यं मम च भवभूतेश्च भणिति तुलायामारोप्य प्रतिफलति तस्यां लघिमनि । गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका मधूलीमाधुर्य क्षिपति परिपूत्यै भगवती ॥ ८॥ लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममरधुनीपुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारकागोधनस्य ॥ ९॥ महाराज श्रीमन् जगति यशसा ते धवलिते पयःपारावारं परमपुरुषोऽयं मृगयते । कपर्दी कैलासं कविवरमभौमं कुलिशभृत् कलानाथं राहुः कमलभवनो हंसमधुना ॥ १० ॥ नीरक्षीरे गृहीत्वा निखिलखगततीर्याति नालीकजन्मा सक्रं धृत्वा तु सर्वानटति जलनिधींश्चक्रपाणिर्मुकुन्दः । सर्वानुत्तुङ्गशैलान् दहति पशुपतिर्भालनेत्रेण पश्यन् व्याप्तत्वत्कीत्तिकान्तौ त्रिजगति नृपते भोजराज क्षितीन्द्र ॥ ११॥ विद्वद्वाजशिखामणे तुलयितुं धाता त्वदीयं यशः कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान् पूर्तये । उक्षाणं तदुपर्युमासहचरं तन्मूर्ध्नि गङ्गाजलं । तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम् ॥ १२ ॥ स्वर्गाद्गोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनोवत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org