SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्री. प्रबन्धचिन्तामणिः तृतीयः प्रकाशः सिडराजप्रबन्धः . १ अथ कदाचिद्गुर्जरदेशे अवग्रहनिगृहीतायां वृष्टौ राजदेयविभाग. निर्वाहाक्षमो देशलोकः तन्नियुक्तैर्व्यापारिभिः श्रीपत्तने समानीय भीमभूपाय न्यवेद्यत । ततः कदाचिदहर्मुखे श्रीमूलराजकुमारस्तत्र चक्रममाणो नृपपत्तिभिः सस्यनिदानीभूतदानीसंबन्धे व्याकुलीक्रियमाणं सकललोकमालोक्य पारिपाश्चिकेभ्योऽधिगतवृत्तान्तः कृपया किञ्चिदश्रुमिश्रलोचनो वाहवाल्यां तदतुल्ययां कलया नृपं परितोष्य वरं वृणीष्वेति नृपादेशमासाद्य भाण्डागार एव वरोऽयमस्तु इति विज्ञपयामास । राज्ञा किमिति न याचसे इत्युक्तः प्राप्तिप्रमाणाभावादित्युदीरयेन् भृशं निर्बन्धपराद्धराधिपात्तेषां कुटुम्बिकानां दानीमोचनवरं ययाचे । ततो हर्षबाष्पाविललोचनेन राज्ञा तत्तथेति प्रतिपद्य भूयोऽप्यर्थयेत्यभिहितः । १) क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुःपूरोदरपूरणाय पिबति स्रोतःपति वाडवो जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ इति काव्यार्थबलेन निगृहीतप्रभूतलोभस्ततो भूयः किमप्यभ्यर्थ्यमानोऽपि मानोन्नततया स्वस्थानमगमत् । तैश्च कौटुम्बिकलोकैः स्तूयमान १ निगृहीतवर्षेण विशोपकदण्डाहिदेशग्रामकौटुम्बिकेषु राजदेयविभागनिर्वाहाक्षमेषु तन्नियुक्तैर्व्यापारिभिः सकलोऽपि स ज्ञातवित्तो देशलोकः L HC आदर्शेष्वेवं पाठः १ वाहाल्यां a ३ अतुलया L ४ इत्युदीर्य H L ५ विक्रमचरिते, शार्ङ्गधरपद्धत्यां (७७३ ) मुभाषितावल्या (२८५) च पद्यमिदं दृश्यते ६ सक्तार्थ Hd Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy