________________
वनराजादिप्रबन्धाः ४७ इत्यादिबोधवाक्यानि विविधानि व्याहरन्माहिचभृत्येनोद्भटवृत्तिदर्शनेन प्रोत्साहितसाहसः श्रीमूलराजेन समं द्वन्द्वयुद्धं कुर्वाणस्तस्याजेयतां दिनत्रयेण विमृश्य तुर्यदिने श्रीसोमेश्वरमनुस्मृत्य ततोवतीर्णरुद्रकलया स लक्षो निजघ्ने ॥ अथ तस्याजिभूपतितस्य वातचलिते श्मश्रुणि पदा स्टशन् राजा लक्षजनन्या लूतिरोगेण भवदंशो विपत्स्यत इति प्रशप्तः ॥ स्वप्रतापानले येन लक्षहोमं घितन्वता । सूत्रितस्तकलत्राणां बाष्पावग्रहनिग्रहः ॥ १ ॥ कच्छपलक्षं हत्वा सहसाधिकलम्बजालमायातं । संगरसागरमध्ये धीवरता दर्शिता येन ॥ २॥
इति लाषाकोत्पत्तिविपत्तिप्रबन्धः॥ मेदिन्यां लब्धजन्मा जितबलिनि बलौ बद्धमूला
दधीचौ रामे रूढप्रवाला दिनकरतनये जातशाखोपशाखा । किंचिन्नागार्जुनेन प्रकटितकलिका पुष्पिता साह
साङ्के आमूलामूलराज त्वयि फलितवती त्यागिनि त्या
गवल्ली ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org