SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वनराजादिप्रबन्धाः स्य दशसहस्त्रसंख्यास्तद्वाजिनोऽष्टादशगजरूपाणि चादाय यावदावासान्दत्ते तावत्प्रणिधिभिरस्मिन्वृत्तान्ते ज्ञापिते सपादलक्षः पलायांचक्रे । तेन राज्ञा श्रीपत्तेन श्रीमूलराजवसहिका कारिता । श्री मुञ्जालदेवस्वामिनः प्रासादश्च। तथा नित्यं २ सो मवासरे श्रीपत्तने यात्रायां शिवभक्त्या व्रजस्तद्भक्तिपरितुष्टः सोमनाथ उपदेशदानपूर्व मण्डलीनगर. मागतः। तेन राज्ञा तत्र मलेश्वर इति प्रासादः कारितः तत्र नमश्चिकीर्षाहर्षेण प्रतिदिनमागच्छतस्तस्य तद्भक्तिपरितुष्टः श्रीसोमेश्वरः ससागर एव भवनगरे समेष्यामीत्यभिधाय श्रीमदणहिल्लपुरेऽवतारमकरोत् । समागतसागरसंकेतेन सर्वेष्वपि जलाशयेषु सर्वाण्यपि वारीणि क्षाराण्यभवन् । तेन राज्ञा तत्र त्रिपुरुषप्रासादः कारितः । अथ तस्य चिन्तायकमुचितं तपस्विनं कंचिदालोकमानः सरस्वतीसरित्तीरे एकान्तरोपवासपारणकेऽ निर्दिष्टपञ्चयासभिक्षाहारं कन्थडिनामानं स तप. स्विनमश्रौषात् । यावत्तन्नमस्याहेतवे नृपतिस्तत्र प्रयाति तावत्तेन तृतीयज्वरिणा स ज्वरः कन्थायां नियोजित इति नृपतिरालोक्य तेन राज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy