________________
४२
प्रबन्धचिन्तामणिः
निषसाद | भयभ्रान्तः स राजा क्षणमेकं मानमवलम्ब्येष त्साध्वसं विधूय भवानेव श्रीमूलराज इत्यभिहिते श्रीमूलराजः स्पष्टं जगौ । उमिति गिरमाकर्ण्य यावत्समयोचितं किञ्चिदक्ति तावत्पूर्वसंकेतितैस्तैश्चतुः सहस्रप्रमितैः पत्तिभिः स गुरूदरः परिवेष्टर्याांचक्रे । अथ मूलराजेन स नृप इत्यभिदधे । अस्मिन्भूवलये नृपतिः समरवीरः समरे यो मम सन्मुखस्तिष्ठति स कोपि नास्त्यस्ति वेति मम विमृशतस्त्वमुपयाचितैरुपस्थितोसि परमशनावसरे मक्षिकासन्निपात इव तिलङ्गदेशीयतैलपाभिधानराज्ञः सेनापतिं मज्जयाय समागतं यावच्छिक्षयामि तावत्त्वया पार्ष्णिघातादिव्यापाररहितेन स्थातव्यमिति त्वामुपरोद्धुमहमागतोस्मि मूलराजेनेत्य. भिहिते भूपतिरेवमवादीत् । यत्त्वं नृपतिरपि सामान्यपत्तिरिव जीवितनिरपेक्षतयेत्थं वैरिगृहे एक एव प्रविशसि तेन त्वया सार्द्धमाजीवितान्तमेव मे संन्धिः। तेन राज्ञेत्युदिते मा मैवं वदेति तं निवारयंस्तेन भोजनाय निमन्त्रितोऽवज्ञया तं निषिध्य करे तरवा - रिमादायोत्थितः। तां करमीमारुह्य तेन स्कन्धावारेण परिवेष्टितो वारवसेनापतिकटके पतितः। तं निह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org