SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ वनराजादिप्रबन्धाः ४१ कालमतिक्रामन्नवरात्रेषु समागतेषु तस्यामेव कटकभूमौ शाकम्भरीनगरं निवेश्य तत्र गोत्रजामानीय तत्रैव नवरात्राणि प्रारेभे । श्रीमूलराजस्तत्स्वरूपमवगम्य निरुपायान्मन्त्रिणो ज्ञात्वा तत्कालोंत्पन्नमतिवैभवो राजा लिहणिका प्रारभ्य राजादेशेन समस्तान्समन्ततः सामन्तानाहूय कूटलेखक. व्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान्पदातींश्चान्वयावदाताभ्यामुपलक्ष्य यथोचितदा. नादिभिरावय॑ च समयसंकेतज्ञापनापूर्व ता. न्सर्वान्सपादलक्षीयनृपतिशिबिरसंनिहितान्विधाय निर्णीते वासरे प्रधानकरभीमारुह्य तत्प्रतिपालकेन समं भूयसीमपि भुवमाकम्य प्रत्यूषकालेऽतर्कित एव सपादलक्षीयनृपतेः कटकं प्रविश्य करभ्या अवरुह्ये कपाणपाणिरेकाक्येव श्रीमूलराजस्त. दौवारिकमभिहितवान् । साम्प्रतं नृपतेः कः समयः श्रीमूलराजो राजद्वारे प्रविशतीति स्वस्वामिने विज्ञपयेति वदस्तं दोर्दण्डप्रहारेण द्वारदेशादपसार्या. यं श्रीमूलराज एव द्वारे प्रविशतीति तस्मिन्नभिदधाने गुरूदरान्तः प्रविश्य तस्य राज्ञः पल्यङ्के स्वयं १ A लिहिणिकां २ C D करभ्यामेव B करभ्यामवरुष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy