________________
प्रबन्धचिन्तामणिः
श्री मूलराजस्य राज्याभिषेकः समजनि । कस्मिन्नप्यवसरे सपादलक्षीय क्षितिपतिः श्रीमूलराजमाभ. पेणयितुं गुर्जरदेशसन्धौ समाजगाम । तद्यौगपद्येन नरपतेस्तिलङ्गदेशीयराज्ञो बारवनामा सेनापतिरुपाययौ । श्रीमूलराजेन तयोरेकस्मिन्विगृह्यमाणेऽपरः पाणिघातं कुरुते इति सचिवैः सह विमृशंस्तैरुचे | श्रीकन्यादुर्गे प्रविश्य कियन्त्यपि दिनान्यतिवाह्यन्ते । नवरात्रिषु समागतेषु सपादलक्षक्षितिपतिः स्वराजधान्यां शाकम्भर्यामेव स्वगोत्रजामाराधयिष्यति । तस्मिन्नवसरे श्रीबारवनामा सेनानीर्जीयते तदनुक्रमतः सपादलक्षक्षोणीपतिरपीत्थं तदीये मन्त्रे श्रुते सति नृपः प्राह । मम लो के पलायनापवादः किं न भविष्यतीत्यादिष्टे ॥ ते ऊचुः ॥
यदपसरति मेषः कारणं तत्प्रहर्त्ती मृगपतिरपि कोपात्सं कुचत्युत्पतिष्णुः । हृदयनिहितवैरा गूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ १ ॥ इति तदचसा श्रीमूलराजः श्रीकन्थादुर्गे प्रविवेश । श्रीसपादलक्षीय भूपतिः श्रीगुर्जरदेशे वर्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org