________________
वनराजादिप्रबन्धाः आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोनुजीविनाम् ।। पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥ १॥ ____ इति नीतिशास्त्रोपदेशादस्मास्वशस्त्रवधकारिषु पुत्रेषु को दण्ड उचितः । अतो राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः। अनेन राज्ञा भट्टारिकाश्रीयोगीश्वरीप्रासादः कृतः। [संव०८७८श्रावणसुदि निरुदं वर्ष १७ मास १ दिन १ श्रीयोगराजेन राज्यं कृतं ॥ सं० ८७८! श्रावणसुदि ५ उत्तराषाढनक्षत्रे धनुर्लग्ने रत्नादित्यस्य राज्याभिषेको बभूव । सं०८८१ कार्तिकसुदि ९ निरुद्धं वर्ष ३ मास ३ दिनान्यनेन राज्ञा राज्यं चक्रे ॥ सं०८९८ वर्षे ज्येष्टसुदि १३ शनौ हस्तनक्षत्रे सिंहलग्ने श्रीक्षेमराजदेवस्य राज्याभिषेकः समजनि। सं० ९२२! भाद्रपदसुदि १५ रवौ वर्ष ३८! मास ३ दिन १० अस्य राज्ञो राज्यनिबन्धः । ५। सं० ९३५ ! वर्षे आश्विनसुदि १ सोमे रोहिणीनक्षत्रे कुम्भलग्ने श्रीचामुण्डराजदेवस्य पट्टाभिषेकः सजनि॥ ६ ॥ सं० ९३८ माघवदि! ३ सोमे निरुद्धं वर्ष १३ ! मास ४ दिन १६ अनेन राज्ञा राज्यं विदधे ॥सं०९३८! माघवदि१४ भौमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org