________________
३६
प्रबन्धचिन्तामणिः
प्रान्तभूमौ सैन्यं सज्जीकृत्याज्ञातचौरवृत्या तस्सर्वमाच्छिद्य स्वपितुरुपनिन्ये । अन्तः कुपितेन मौनावलम्बिना राज्ञा न किमपि तेषां प्रतिपत्त्यादि कृतं । तत्सर्वं नृपतिसात्कृत्वा क्षेमराजकुमारेणैतकार्य सुन्दरं कृतमसुन्दरं वेति विज्ञप्तो नृपतिर्बभाषे । यदि सुन्दरमुच्यते तदा परस्वलुण्टनपातकं यद्यसुन्दरमभिधीयते तदा भवदीयचेतसो विरक्तः। अतो मौनमेव श्रेय इति सिद्धं । श्रूयतां भवदीयप्रथम प्रश्ने परवित्तापहृतौ निषेधहेतुः । यदा परम: ण्डलेषु नृपतयः सर्वेषामपि राज्ञां राज्यप्रशंसां कुर्वन्ति तदा गुर्जरदेशे चरटराज्यभित्युपहसन्ति । अस्मत्पुरुषैरित्यादिस्वरूपं विज्ञप्तिकया ज्ञाप्यमानाः किञ्चिन्निजपूर्वजवैमनस्यमावहन्तो दूयामहे । यद्ययं पूर्वजकलङ्कः सर्वलोकहृदये विस्मृतिमावहति तदा समस्तराज पङ्गिषु वयमपि राजशब्दं लभामहे । धनलवलोलुभभवद्भिः स पूर्वजकलङ्ग उत्सृज्य पुर्ननवीकृतः। तदनन्तरं राज्ञा शस्त्रागारान्निजं धनुरुपानीय यो भवत्सु बलवान् स इदमारोपयत्विति समादिष्टे सर्वाभिसारेण तन्नैकेनाप्यधिरोप्यत इति राज्ञा हेलयैवाधिज्यीकृत्याभिदधे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org