________________
१०
.
..
प्रबन्धचिन्तामणिः आप्ते दर्शनमागते दशशती संभाषिते चायुतं यहाचा च हसेहमाशु भवता लक्षोस्य विश्राण्यताम्। निष्काणां परितोषके मम सदा कोटीर्मदाज्ञा परा कोशाधीश सदेति विक्रमनृपश्चके वदान्यस्थितिम् १ ___ सिद्धसेनापि पूर्वमतबलेन नृपभावमवगम्य दक्षिणपाणिमुदस्य धर्मलाभाशि ददौ । नृपतिनाशिदिहेतु पृष्टः सन्महर्षिस्तव मानसनमस्कारस्याशिदिः प्रदीयमानोस्तीत्यभिहिते तज्ज्ञानचमत्कृतेन राज्ञा तत्यारितोषिके सुवर्णकोटिळतीर्पत ॥ अ. थान्यस्मिन्नवसरे राज्ञा कोशाध्यक्षस्तस्मै दापितसुवर्णवृत्तान्तं पृष्टः प्राह । यधर्मवाहिकायां श्लोकबन्धेन मया सुवर्णदानं निहितं ॥ तथाहि ॥ धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपणये ।। सूरये सिद्धसेनाय ददौ कोटिं नराधिपः ॥ १ ॥
'ततः श्रीसिद्धसेनसूरीन्सभायामाकार्य तत्सुवर्ण गृह्यतामिति प्रोक्ते वृथा तृप्तस्य भोजनमित्युच्चारपुरःसरमनेन सुवर्णेन ऋणग्रस्तामबनीमनृणी कुरु । इत्युपदिष्टे तत्सन्तोषपरितुष्टेन राज्ञा तदडीरतं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org