________________
विक्रमार्क प्रबन्धः परुद्धो नृपो विद्यादानोद्यतं गुरुं विज्ञपयामास । यप्रथममस्मै द्विजाय विद्यां देहि पश्चान्मा हे राजनयं विद्यायाः सर्वथाऽनह इति गुरुणोदिते भूयोभूयस्तव पश्चात्तापो भविष्यतीत्पुपदिश्य नृपोपरोधात्तेन विप्राय विद्या प्रदत्ता। ततः प्रत्यावृतौ द्वावप्युजयिनीं प्राप्य पट्टहस्तिविपत्तिविषण्णं राजलोकमालोक्य परपुरप्रवेशविद्यानुभवनिमित्तं च राजा निजगजशरीरे आत्मानं न्यवेशयत् । तद्यथा ॥ भूपः प्राहरिके द्विजे निजगजस्याङ्गेऽविशद्विद्यया विप्रो भूपवपुर्विवेश नृपतिः क्रीडाशुकोऽभूत्ततः। पल्लीगात्रनिवेशितात्मनि नृपे व्यामृश्य देव्या मृति विप्रः कीरमजीवयन्निजतनुं श्रीक्रमो लब्धवान् १॥ ॥ इत्थं किक्रमार्कस्य परपुरप्रवेशविद्या सिद्धा ॥ ___ अथास्मिन्नवसरे श्रीविक्रमो राजपाटिकायां बजस्तन्नगरनिवासिना श्रीस नानुगम्यमानं बन्दिपुत्रैः श्रीसर्वज्ञपुत्र इति स्तूयमानं श्रीसिद्धसेनाचार्यमागच्छन्तमवलोक्य सर्वज्ञपुत्र इति वचसा कुपितः। तत्सर्वज्ञतापरीक्षार्थ तस्मै मानसं नमस्कारमकरोत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org