________________
प्रबन्धचिन्तामाणिः करवडी विधेहीत्यभिहिते सर्वेष्वभिधानेष्वभिधानमिदमश्रुतमाकर्ण्य चिन्ताचान्तस्वान्तः स्वहस्तं तन्मस्तके दत्वा माहिष्यास्तले निवेश्य करवडीसंज्ञां करतलयुगलयोजनां कारयित्वाकन्ठं पयः पायितः। सतं मस्तके हस्तदानाकरवडीविशेषशब्दज्ञापनाच गुरुपायं मन्यमानस्तस्याः समुचितपतिमवगम्य महिषीपरिहारानं निजं सौधमानीय षण्मासी यावतदपुःपरिकर्मपूर्व ई नमः शिवायेत्याशिर्वादाध्यापनंकारितःषडिर्मासैस्तस्य तान्यक्षराणि कण्ठपीठस्थितान्यवगम्य शुभे मुहूर्ते कृतशृङ्गारः स पण्डितेन नृपसभा नीतो नृपं प्रति सदभ्यस्तमाशिर्वादं सभाक्षोभवशादुशरटेत्यक्षरैर्जगौ । विसंस्थूलवचसा विस्मितस्य नृपतेरसतीं तचातुरीमारोपयितुकामः पण्डितः५ प्राह ॥ उमया सहितो रुद्रः शंकरः शूलपाणिभृत् । रक्षतु त्वां महीपाल टंकारबलगर्वितः॥ १ ॥ इति विदितन श्लोकेन तत्पाण्डित्यगम्भीरतां वचनविस्तरेण व्याख्यातवान् । तत्प्रत्ययप्रीतेन नृ१ A अभिधानेष्विदं २ C गुरुप्रायं तस्याः ३ A D परिकर्मण। पूर्व ४ B नृपतमेनासि तच्चातुरौं । ५ A C पण्डितः । उमया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org