________________
विक्रमार्कप्रबन्धः संचरन्तमुपाध्यायमालोक्य वातायनच्छायासु विश्रान्तं तमुवाच। परिपाकपेशलानि सहकारफलानि दर्शयन्ती तं तल्लोलुभमवबुध्यामूनि फलानि शीतलान्युष्णानि वा तुभ्यं रोचत इति तद्वचनचातुरीतत्त्वमनवबुध्य तान्युष्णान्येवाभिलषामीति तेनोक्ते तदुपढौकितवस्त्राञ्चले तिर्यगतानि मुमोच । भूतलपाताद्रजोवगुण्ठितानि करतलाभ्यामादाय स्वमुखमारुतेन तद्रजोपनयन् राजकन्यया सोपहासमभिदधे । किमत्युष्णान्यमूनि वदनवातेन शिशिरीकुरुषे इति तस्याः सोपहासवचसा सामर्षः स द्विजः प्राह । रे विदग्धमानिनि गुरुवितर्कपराया भवत्याः पशुपाल एव पतिरस्तु । इति तच्छापं श्रुत्वा तयोक्तायस्तव त्रैविद्यस्याप्याधिकोविद्यतया परमगुरुस्तमेव विवाहयिष्यामि सेति प्रतिज्ञातवती। अथ श्रीविक्रमे तदुचितप्रवरवरचिन्तासमुद्रमग्ने स पण्डितः कदाचिदभिलषितवरनिवेदनोत्सुकीकृतराजशासनादरण्यानीमवगाहमानोतितृष्णातरलितः सर्वतः सर्वतो मूर्खाभावात्यशुपालमेकमालोक्य जलं याचितवान् । तेनापि जलाभावार्दुग्धं पिबेत्युत्त्का १ A अधिकविद्यया २ B अतितृषा तरलितः
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org