SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ६ प्रबन्धचिन्तामणिः त्या समुपागतः स नृपं जगौ । तद्भोज्यादिकमतीक्ष्य राजानमधिचिक्षेप च तयोश्विरं द्वन्द्वयुद्धे जायमाने सुकृतसहायेन राज्ञा तं पृथ्वीतले पातयित्वा हृदि चरणमारोप्येष्टं दैवतं स्मरेत्यादिष्टः स नृपं जगौ । अमुनाद्भुतसाहसेन परितुष्टास्म यकृत्यादे - शकारी अग्निवेतालनामाहं तव सिद्धः। एवं निष्कण्टकं तस्य राज्यमजनि । इत्थं तेन पराक्रमाक्रान्तदिग्वलयेन पण्णवतिप्रतिनृपतिमण्डलानि स्वभोगमानिन्ये वन्यो' हस्ती स्फुटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपालितरदनस्तं पुनर्वीक्ष्यमाणो मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥१॥ अवन्त्यां पुरि श्रीविक्रमादित्यराज्ञः सुता प्रियङ्गुमअरी साध्ययनाय वररुचिनाम्नः पण्डितस्य समर्पिता सा प्राज्ञतया सर्वाणि शास्त्राणि तत्पार्श्वे कियद्भिवीरैरधव्य यौवनभर वर्त्तमाना जनकं नित्यमाराधयन्ती कदाचिदसन्तसमये वर्त्तमाने गवाक्षे सुखासनासीना मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि १ C आक्रान्तमण्डलेन २ वररुचिना राज्ञः स्तुतिः कृनेयम् । साहसा इति विक्रमस्यापरं नाम ३ ADG साहसाङ्क: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy