________________
विक्रमार्क प्रबन्धः
तालमालोकितवान् । स च बुभुक्षाक्षामकुक्षिस्तानि भोज्यानि यदृच्छयोपभुज्य गन्धद्रव्यैश्व स्वशरीरं विलिप्य ताम्बूलास्वादनेन परितुष्टस्तत्र पल्यङ्के समुपविश्य श्रीविक्रमं प्राह । रे मनुज अहमग्निवेतालनामा देवराजप्रतीहारतया प्रतीतः प्रतिदिनमेकैकं नृपं निहन्मि । किं तु तवानया भक्त्या प्रीणितेन मयाऽभयदानपूर्व तव राज्यं प्रदत्तं परमेताव
क्ष्यभोज्यानि मम सदैवोपढौकनीयानि । इत्थमुभाभ्यामपि प्रतिपने कियत्यपि गते काले श्रीविक्रमेण राज्ञा निजमायुः पृष्टः । नाहं वेद्मि किं तु स्वस्वामिनं विज्ञाप्य भवन्तं विज्ञापयिष्यामीत्युक्का गतः । पुनरन्यस्यां निशि समेतः । महेन्द्रेण संपूर्णशतायुरादिष्ठ इति तं जगौ । स राज्ञा मित्रधर्ममधिकमधिरोप्येत्युपरुघ्य' यन्महेन्द्रपार्श्वादिकेन हायनेन हीनं वर्षशतं कारयेति स तदङ्गीकृत्य भूयोऽ भ्युपेतः सन्नित्युवाच । महेन्द्रेणापि न नवनवर्तिनैकोत्तरं वर्षशतं भवतीति' निर्णये ज्ञाते यावत्परस्मिन्दिने तद्योग्यं भक्ष्यमोज्यादिपाकं निषिध्य नृपः संग्रामसज्जो भूत्वा निशि तस्थौ । तावत्तत्रैव पूर्व री१ A अधिरोप्यादान्महेन्द्र २ B जवतीति कथितमिति निर्णये ज्ञाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org