SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ४ प्रबन्धचिन्तामणिः धिग रोहणं गिरिं दीनदायव्रणरोहणम् । दत्ते हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥ इत्युदीर्थ सकललोकप्रत्यक्षं तत्रैव तद्रत्नमुत्सृज्य पुनर्देशान्तरं परिभ्राम्यन्नवन्तिपरिसरं प्राप्तः । पटुपटहध्वनिमाकर्ण्य वृत्तान्तमवबुध्य च तं छुप्तवान् । तेन समं स राजमन्दिरे समायातः । तस्मिवाटे मुहूर्ते अहोरात्रप्रमिते राज्ये सचिवैरभिपिक्तो दीर्घदर्शितयेति दध्यौ । यदस्य राज्यस्य प्रबलः कोप्यसुरः सुरो वा क्रुद्धः सन्प्रतिदिनमेकैकं नृपं संहरति नृपाभावे देशविनाशं करोति । अतो भक्त्या वा शक्त्या तदनुनयः समुचित इति नानाविधानि भक्ष्यभोज्यानि निर्माप्य प्रदोषसमये चन्द्रशालायां सर्वमपि सजीकृत्य निशारात्रिकावसरानन्तरमङ्गरक्षैर्वृतस्तत्र भारशृङ्गलायां निहितपल्यङ्के निजपट्टदुकूलाछादितमुच्छीर्षकं नियोज्य स्वयं प्रदीपच्छायामाश्रित्य कृपाणपाणिधैर्यनिर्जितजगत्रयो दिगवलोकनपरो यावदास्ते तावन्महानिशीथसमये वातायनद्वारेण प्रथमं धूमं ततो ज्वालां ततः साक्षात्प्रेतपतिरूपमिव करालं वे१ BD अवन्तिपरिसरे प्राप्तः २० खाद्यानि निर्माण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy