________________
विक्रमार्कप्रबन्धः शतैरप्युपायैराननुपलभमानः कदाचिद्भट्टमात्रामत्रसहायो रोहणाचलं प्रति प्रतस्थे । तत्र तदासन्ने प्रवरनामनि नगरे कुलालस्यालये विश्रम्य प्रभातसमये स भट्टमात्रेण खनित्रं याचितः प्राह । अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रवणपूर्व ललाटं करतलेन संस्टस्य हा दैवमित्युदीरयन्याते पातिते सति दुर्गतो यथाप्राप्त्या रत्नानि लभतेस वृत्तान्तममुं तस्मात्सम्यगवगम्य विक्रमेण तदैन्यं कारयितुमक्षमस्तान्युपकरणानि सहादाय रत्नखननार्थ खनीमध्ये प्रहारोद्यतं विक्रममभिदधे । यत्कश्चिदवन्त्याः समागतो वैदोशिकःस्वगृहे कुशलोदन्तं दृष्टो भवन्मातुः पञ्चत्वमाचररख्यौ। तत्तप्तवजशूचीनिभं वचो निशम्य ललाटं करतलेनाहत्य हा दैवमित्युञ्चरनवनित्रं करतलाच्चिक्षेप । तेन खनित्राग्रेण विदारिता. यां भुवि देदीप्यमानं सपादलक्ष्यमूल्यं रत्नं प्रादुरासीत्। भट्टमात्रस्तदादाय विक्रमेण सह प्रत्यावृत्तः । तच्छोकशङ्कुशङ्कापनोदाय खनीवृत्तान्तज्ञापनपूर्व तत्कालमेव मातुः कुशलमुक्तवान् । विक्रमः सहजां लोलुभतां विमृश्य भट्टमात्रस्य क्रुधा तत्कराद्रत्नमाछिद्य पुनः खनीकण्ठे प्राप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org