________________
३१० प्रबन्धचिन्तामणिः सर्गः ५ वतिशायिविम्वं नागार्जुनः स्वसिद्धरससिद्धयेऽपहृत्य सेडीतटिन्यास्तटे तदेव विन्यस्य तत्पुरतो रससाधनाय श्रीसातवाहनस्यैकपत्नीं चन्द्रलेखाभिधानां प्रतिनिशं सिद्धव्यन्तरसान्निध्यात्तत्रानीय रसमर्दनं कारयति स्म । इत्थं भूयो भूयस्तत्र या - तायाते सति बन्धुबुद्ध्या सा नागार्जुनपार्श्वे तदौषधीनां मर्दन हेतुं पृच्छती, सोपि स्वकल्पनया कोटिवेधरसस्य यथावस्थितं वृत्तान्तं निवेदयन् तस्याश्व वचनगोचरातीतं सत्कारं कुर्वाणोनन्यसामान्यसौजन्यं प्रवर्द्धयामास । अथ कदाचित्तया निजाङ्गजयोरस्मिन् वृत्तान्ते निवेदिते तौ तलुब्धौ राज्यं परित्यज्य नागार्जुनसमलंकृतां भुवमागतौ कैतवेन तस्य रसस्य जिघृक्षया गुप्तवेषौ यत्र नागार्जुनो भुङ्क्ते तत्र तीमर्थदानेन परितोष्य रसवात पृच्छतः । सा च तजिज्ञासा तदर्थं सलवणां रसवतीं कुर्वती षण्मास्यां व्यतीतायां तस्मिन् क्षा. रामिति रसवतीं दूषयति सति, इङ्गितैः सिद्धं रसमिति ताभ्यां निवेदितवती । अथ प्रतिप्रन्नभागिनेयाभ्यां रसग्रसनलालसाभ्यां वासुकिना निर्णीत१ रसवतीविधायिनी कांचित् ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org