SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः ३०९ हौषधीनामास्वादवर्णघ्राणादिभिर्निर्णीय च गुरूनवगणय्य कृतपदलेपः कृकवाकुकलापिवदुत्पत्यावटे निपतंश्च तद्वणश्रेणिजर्जरिताङ्गो गुरुभिः किमेतदित्यनुयुक्तो यथावद्वृत्तान्तं निवेदयन् तच्चातुर्यचमत्कृतचेतोभिस्तच्छिरसि पद्महस्तदानपूर्वकं पाष्टीकतन्दुलोदकेन तानि भेषजान्यभ्यञ्ज्य तत्पादलेपाङ्ग गनगामी भूया इति तदनुग्रहादेकां सिद्धिमासाद्य श्रीपार्श्वनाथपुरतः साध्यमानो रसः समस्तस्त्रैणलक्षणोपलक्षितपतिव्रतवनितामद्यमानः कोटिवेधी भवतीति तन्मुखादाकर्ण्य च यत्पुरा समुद्रविजयदाशार्हेण त्रिकालवेदिनः श्रीनेमिनाथस्य मुखान्महातिशायि श्रुत्वा श्रीपार्श्वनाथबिम्बं रत्नमयं निर्माप्य श्रीद्वारवत्यां प्रासादे न्यस्तं, द्वारवतीदाहानन्तरं समुद्रेण लावितायां तस्यां पुरि तत्र समुद्रे तस्मिन्बिम्बे तथैव विद्यमाने कान्तीयसायात्रिकस्य धनपतिनाम्नो यानपात्रे देवतातिशयात् स्खलिते इह जिनबिम्बमस्तीति दिव्यवाचा निर्णीय नाविकांस्तत्र प्रक्षिप्य सप्तसंख्यैरामतन्तुभिः सन्दानितमुद्धृत्य निजायां पुरि चिन्तातीतलाभात् स्वयंकृतप्रासादे न्यस्तवान् । तत्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy