________________
३०८ प्रबन्धचिन्तामणिः सर्ग.५ ___ इत्युक्तियुक्तिभ्यां प्रबोध्य ते मर्हषयः स्वं पदं भेजः। इत्थं बोधितस्यापि तस्य मिथ्यात्वध्वान्तान्तरितस्य कनकभ्रान्तिरिव तथात्राप्युन्मत्सराच्छे. कात्तद्भक्तानभिचारकर्मणा कांचन पीडयन् कांचन व्यापादयन् तवृत्तान्तं तेभ्यो ज्ञानातिशयादवधार्योपसर्गहरं पासमिति नूतनं स्तोत्रं रचयांचक्रुः ॥ इति वराहमिहिरप्रबन्धः॥ ___ अथ ढङ्काभिधानभूभृति रणसिंहनामा राजपुत्रस्तन्नन्दनां भूपलनाम्नी सौन्दर्यनिर्जितनागलोकबालामालोक्य जातानुरागतया तां सेवमानस्य तस्य वासुकेः सुतो नागार्जुननामा समजनि। तेन. पातालपालेन सुतस्नेहमोहितमनसा सर्वासामप्यौ. षधीनां फलानि मूलानि दलानि च भोजितस्तप्रभावान्महासिद्धिभिरलंरुतः सिद्धपुरुषतया पृथ्वीं विगाहमानः शातवाहननृपतेः कलागुरुर्गरीयसी प्रतिष्ठामुपागतोपि गगनगामिनी विद्यामध्येतुं श्रीपादलिप्तपुरे पादलिप्ताचार्यान् सेवमानो व्रतमतिभॊजनावसरे पदे लेपप्रमाणेन गगनोप्ततितान् श्रीअष्टापदप्रभृतीनि तीर्थानि नमस्कृत्य तेषां स्वस्थानमुपेयुषां पादौ प्रक्षाल्य ज्ञातसप्तोत्तरशतसंख्यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org